SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ प्रकाशः ] भोजभीमप्रबन्धाः । इति तत्पठनानन्तरं चौरमङ्गरक्षकैः कारागारे निवेशयामास । ततोs - हर्मुखे सभामुपनीताय तस्मै चौराय यत्पारितोषिकं राज्ञा प्रसादीकृतं तद्धर्मवहिकानियुक्तो नियोग्येवं काव्यमलिखत् । १०) अमुष्मै चौराय प्रतिनिहित मृत्यु प्रतिभिये प्रभुः प्रीतः प्रादादुपरितनपादद्वयकृते । सुवर्णानां कोटीर्दश दशनकोटिक्षतगिरीकरीन्द्रानयष्ठौ मदमुदितगुञ्जन्मधुलिहः || ५ अथ कदाचित्तस्यां वाच्यमानायां स्वमेव स्थूललक्षं मन्यमानो दर्पभूताभिभूत इव ११) तत्कृतं यन्न केनापि तद्दत्तं यन्न केनचित् । तत्साधितमसाध्यं यत्तेन चेतो न दूयते ॥ इति स्वं मुहुर्मुहुः श्लाघमानः केनापि पुरातनमन्त्रिणा तद्भर्वखर्वचि - कीर्षया श्रीविक्रमार्कधर्मवहिका नृपायोपनिन्ये । तस्या उपरितनविभागे प्रथमतः प्रथमं काव्यमेतत् — १२) अष्टौ हाटककोटयस्त्रिनवतिर्मुक्ताफलानां तुलाः पञ्चाशन्मदगन्धमत्तमधुपक्रोधोद्धराः सिन्धुराः । अश्वानामयुतं प्रपञ्चचतुरं वाराङ्गनानां शतं दण्डे पण्डयनृपेण ढौकितमिदं वैतालिकस्यापितम् ॥ १३) वैक्ाम्भोजे सरस्वत्यधिवसति – ० ४१ अस्य काव्यस्य पारितोषिकदानमष्टौ हाटकमिदं काव्यं ज्ञेयम् ॥ १ दर्पाभिभूतः C २ तारुण्योपचयप्रपञ्चितदृशां d ३ वेतालकस्य bd वैतालिकायायतामिति भोजप्रबन्धे पाठः ४ पद्यमिदं भोजप्रबन्धे ( २३१ ) शार्ङ्गधरपत्यांच वर्तते एतत्संबन्धिनी कथा कथारत्नाकराच्च ज्ञेया पञ्चमः प्रबन्धः १२, १३ लोकसहितो भोजप्रबन्धे (पृ. ५१ ) वर्तते ५ अयं श्लोकः पूर्वं विक्रमार्कप्रबन्धे ( श्लो. १४ ) संपूर्णः प्रदत्तः ४) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy