SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः। [प्रथमः पल्ली निवेश्य दीपोत्सवे रात्रौ मृगयां कर्तुं प्रयातः । चौरवधभूमेः सन्निधौ शूकरं चरन्तमालोक्य शूलिकायाः पतितं चौरशबमजानन जानुनाधो विधाय यावत्प्रति किरिं शरं सज्जीकुरुते तावत्तेन शबेन संकेतितः। ततस्तं करस्पर्शान्निवार्य शूकरं तं शरेण विदार्य यावदाकर्षति तावत्स शबोऽट्टहासपूर्वमुत्तिष्ठन् सीन्धलेन प्रोचे तव संकेतकाले शूकरे शरप्रहारः श्रेयान् । किं वाऽवबुध्य मत्प्रदत्तः प्रहार इति तद्वाक्यान्ते स छिद्रान्वेषी प्रेतः तन्निस्सीमसाहसेन परितुष्टो । वरं वृणु इत्यभिहितो मम बाणः क्षितौ मा पतत्विति याचिते भूयोपि वरं वृणु । इति श्रुत्वा मद्भुजयोः सर्वापि लक्ष्मीः स्वाधीनेति । तत्साहसचमत्कृतः स प्रेत इत्याह त्वया मालवमण्डले गन्तव्यमिति । तत्र श्रीमुञ्जराजा सन्निहितविनाशस्तथापि तत्र त्वया गन्तव्यमेव तत्र तवान्वये राज्यं भविष्यतीति । तत्प्रेषितस्तत्र गत्वा श्रीमुञ्जराज्ञः संपदः पदं कमपि जनपदमवाप्य पुनरुत्कटतया श्रीमुञ्जेन निगृहीतनेत्रः काष्ठपञ्जरनियन्त्रितो भोजं सुतमजीजनत् । सोऽभ्यस्तसमस्तराजशास्त्रः षट्त्रिंशदायुधान्यधीत्य द्वासप्ततिकलाकूपारपारंगम: समस्तलक्षणलक्षितो ववृधे । तज्जन्मनि जातकविदा केनापि नैमित्तिकेन जातकं समर्पितं । ३२) पञ्चाशत्पञ्चवर्षाणि मासाः सप्त दिनत्रयम् । भोक्तव्यं भोजराजेन सगौडं दक्षिणापथम् ॥ .. इति श्लोकार्थमवगम्यास्मिन्सति मत्सूनो राज्यं न भविष्यतीत्याशकयान्त्यजेभ्यो वधाय तं समर्पयामास । अथ तैर्निशीथे माधुर्यधुर्या तन्मूर्तिमवधार्य तैर्जातानुकम्पैः सकम्पैश्चेष्टदैवतं स्मरेत्यभिहिते । १ अवबुध्य महाप्रदत्तःP अवबुध्यमदत्त K अवबुध्यति मत् ॥ २ त्यभिहिते K ३ दण्डायुधानि A B ४ भोजदेवेन भोक्तव्यं A ५ पद्यमिदं भोजप्रबन्धेप्यस्ति (६) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy