SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ प्रकाशः } २५) मूळराजप्रबन्धः । अधिकारात्रिभिर्मासैर्माठापत्यात्रिभिर्दिनैः । । शीघ्रं नरकवाञ्छा चेद्दिनमेकं पुरोहितः || इति स्मृतिवाक्यं जानंस्तपउडुपेन संसारसागरमुत्तीर्य गोष्पदे निमजामि किमिति वचसा निषिद्धो नृपस्ताम्रशासनं मण्डकवेष्ठितं निर्माय तस्मै भिक्षागताय पत्रपुटे मोचयामास । स तदजानंस्ततः प्रत्यावृत्तः । पुरा दत्तमार्गोऽपि सरस्वत्याः पूरे तदा न दीयमानमार्ग आजन्म निजदूषणानि विमृशंस्तात्कालिक भिक्षादोषपरिज्ञानाय यावद्विलोकते तावताम्रशासनं ददर्श । तदनु क्रुद्धं तपोधनं विज्ञाय तत्रागत्य नृपस्तत्सान्त्वनाय यावद्विनयवाक्यानि नृते तावत्तेन मया दक्षिणपाणिना गृहीतं भवत्ताम्रशासनं कथं वृथा भवतीति वयजल्लदेवनामा निजविनेयो नृपाय समर्पितः । तेन वयजलदेवेन प्रतिदिनमङ्गोद्वर्त्तनाय जात्यघुसृणस्याष्टौ पलानि मृगमदपलचतुष्टयं कर्पूरपलमेकं द्वात्रिंशद्वाराङ्गना ग्रामसहितं सितातपत्रं च यदा ददासि तदा चिन्तायकत्वमङ्गीकारोमीत्यभिहिते राज्ञा तत्सर्वं प्रतिपद्य त्रिपुरुषधर्मस्थाने तपस्विभूपपदे सोऽभिषिक्तः । कंकरौ इति प्रसिद्धः । इत्थं भोगान् भुञ्जानोऽप्यजिह्मब्रह्मचर्यनिरतः । स कदाचिन्निशि मूलराजपत्न्या परीक्षितुमारब्धः । ताम्बूलप्रहारेण कुष्ठिनीं विधाय पुनरनुनीतो निजोद्वर्त्तनविलेपैनात्स्नानोत्सृष्टपयःप्रक्षालनाच्च सज्जीचकार ॥ ६ ॥ अथात्रैव लाखाकोत्पत्तिविपॅत्तिप्रबन्धः ॥ २६ पुरा कैस्मिन्नपि परमारवंशे कीर्त्तिराजदेशाधिपतेः सुता कामलतानाम्नी सा बाल्ये सममालिभिः कस्यापि प्रासादस्य पुरो रममाणा वरान्वृणीतेति ताभिर्व्याहियमाणा सा कामलता घोरान्धकारनिरुद्ध नयनमार्ग प्रासादस्तम्भान्तरितं फुलडाभिधानं पशुपालमज्ञातवृत्त्या तमेव वृत्त्वा तदनन्तरं कतिपयैवर्षैः प्रधानवरेभ्य उपढौ क्यमाना पतिव्रतात्रतनि Jain Education International २७ १ ग्राससहितं A BH २ कुंकुरौल & c d ३ लेपनस्नान P ४ विप्रतिपत्ति P ५ कदाचिदपि BH For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy