SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः | [ प्रथम: कमालोक्य जलं याचितवान् । तेनापि जलाभाबाद्ग्धं पिबेत्युक्त्वा करवडीं' विधेहीत्यभिहिते सर्वेष्वभिधानेष्वभिधानमिदंमश्रुर्तमा कर्ण्य चिन्ताचान्तस्वान्तः स्वहस्तं तन्मस्तके दत्त्वा महिष्यास्तले निवेश्य कर वडीसञ्ज्ञां करतलयुगल योजनां कारयित्वाकण्ठं पयः पायितः । स तं मस्तके हस्तदानात्करवडीविशेषशब्दज्ञापनाच्च गुरुप्रायं मन्यमानस्तस्याः समुचितपतिमवगम्य महिषीपरिहाराचं निजं सौधमानीय षण्मासीं यावचद्वपुः पैरिकर्म पूर्व ॐ नमः शिवायेत्याशीर्वादाध्यापनं कारितः । षड्भिर्मासैस्तस्य तान्यक्षराणि कण्ठपीठस्थितान्यवगम्य शुभ मुहूर्ते कृतशृङ्गारः सः पण्डितेन नृपसभां नीतो नृपं प्रति सदभ्यस्तमाशीर्वादं सभाक्षोभवशादुशरटेत्यक्षरैर्जगौ । विसंस्थूलवचसा विस्मितस्य नृपतेरसतीं ' तच्चातुरीमा रापयितुकामः पण्डितः प्राह ॥ ४ उमया सहितो रुद्रः शंकरः शूलपाणिभृत् । ६ 1 रक्षतु त्वां महीपाल टंकारबलगर्वितः ॥ इति विदितेन श्लोकेन तत्पाण्डित्यगम्भीरतां वचनविस्तरेण व्याख्यातवान् । तत्प्रत्ययप्रीतेन नृपतिना हि महिषीपालः स्वां पुत्रीं परिणायितः । पण्डितोपदिष्टं सर्वथा मौनमेवालम्बमानो राजकन्यकया तद्वैदग्ध्यजिज्ञासया नवलिखित पुस्तकस्य शोधनायोपरुद्धः । करतले पुस्तकं विन्यस्य तदक्षराणि बिन्दुमात्रारहितानि नखच्छेदिन्या' केवलान्येव कुर्वन् राजपुत्र्या मूर्खोयमिति निर्णीतः । ततः प्रभृति जामातृशुद्धिरिति सर्वतः प्रसिद्धिरभूत् । कदाचिच्चित्रभित्तौ महिषीनिवहे दर्शिते सति प्रमोदात्स्वप्रतिष्ठां विस्मृत्य तदाहानोचितानि विकृतिवचनान्युच्चरन्महि १ करचण्ड AB २ अभिधानेष्विदं ३ अश्रुतचरं A अश्रुतपूर्व B ४ वपुः परिकर्मणासह पूर्व A वपुः परिकर्मणापूर्व स्वस्तीत्याशीर्वादाध्यापनं B परिकर्मणापूर्व & D ५ नृपतेर्मनसि तचातुरीं B ६ रक्षतात्तव राजेन्द्र टणत्कारकरं यश: A BL ७ निवेदितेन L ८ मेवावलम्बमानो B ९ रहितानि केवलानि b अक्षरच्छेदिन्या & लेखिन्या D १० महिषीपाल एव LP a Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy