SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ प्रकाशः ] प्रकीर्णकप्रबन्धाः । अथ ते सर्वव्याधयस्तेन चिकित्सेकेन भूतलादुच्छेदिताः स्वर्लोकेऽश्विनीकुमारवैद्ययोः स्वपराभवं निजगदुः । अथ तौ तया प्रवृत्त्या चित्रीयमाणमानसौ नीलवर्णविहङ्गमयुग्मीभूय व्याधिप्रतिभटस्य वाग्भटस्य धवलगृहवातायनतले वलभ्यां निविष्टौ कोsरुक् शब्दं चक्रतुः । ततः स आयुर्वेदवेदी नेदीयांसं तदीयशब्दं साभिप्रायं चेतसि चिरं विचिन्त्य । २७) अशाकभोजी घृतमत्ति योन्धसा पयोरसान् शीलति नाति योऽम्भसा । अभुक् विभुक् नापकृतां विदाहिनां चलत्प्रभुक् जीर्णभुगल्पसारमुक् ॥ इत्यभाणि । भणितानन्तरं चमत्कृतचित्तौ तौ प्रयातौ । पुनर्द्वितीयदिने द्वितीयवेलायां तादृपक्षिरूपं विधाय प्राक्तनशब्दरूपं कुर्वाणौ समायातौ वैद्यगृहे पुनस्तयोर्वचः प्रतिवचः । २८) वर्षासु यस्तिष्ठति, शरदि पिबति, हेमन्तशिशिरयोरचि । माद्यति मधुनि, ग्रीष्मे स्वपिति, भवति चखग सोऽस्क् ॥ इति भणितानन्तरं पुनरेव गतौ । तृतीयदिने योगीन्द्ररूपं कृत्वा तद्गृहे समागतौ तयोर्वचः । . २९) अभूमिजमनाकाशमहन्तव्यमवारिजम् । सम्मतं सर्वशास्त्राणां वद वैद्य किमौषधम् ॥ पुनर्वैद्यवचः ३०) अभूमिजमनाकाशं पथ्यं रसविवर्जितम् । पूर्वाचार्यैः समाख्यातं लङ्घनं परमौषधम् ॥ २०१ १ चिकित्सितेन P २ आमुक् विरुट् नावकृतां a अभुक् विरुद् वातकृतां H २६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy