SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः | [ पञ्चमः वर्जं भूम्यन्तरितं बभूव । अथ श्रीशासनदेवतादेशात् षण्मासीं यावदाचाम्लानि निर्माय कठिनीप्रयोगेण नवाङ्गवृत्तौ निवृत्तायां श्रीअभयदेवसूरीणां वपुषि प्रादुर्भूते प्रभूतरोगे पातालपाल : श्रीधरणेन्द्रनामा सितसर्परूपमास्थाय तद्वपुर्जिव्हया विलिये प्रसह्य निरामयीकृत्य तत्तीर्थं श्रीमदभयदेवसूरीणामुपदिदेश । श्रीसंघेन सह समागतास्तत्र ते सूरयः प्रखवन्तीं सुरभिं विलोक्य गोपालबालैर्निवेदितायां भुवि नवं द्वात्रिंशतिकास्तवं कुर्वन्तस्त्रिंशत्तमवृत्तेन तत्र श्रीपार्श्वनाथबिम्बं प्रादुश्चक्रुः । देवतादेशेन तद्वृत्तं गोप्यमेव निर्ममे ॥ २३) यन्मार्गेऽपि चतुःसहस्रशरदो देवालये योऽर्चितः स्वामी वासववासुदेववरुणैः स्वावासमध्ये ततः । कान्त्यामिभ्यधनेश्वरेण महता नागार्जुनेनार्चितैः पायात्स्तम्भन के पुरे स भवतः श्रीपार्श्वनाथ जिनः ॥ इति नागार्जुनोत्पत्तिस्तम्भनकतीर्थावतार प्रबन्धौ * ॥ २२ अथावन्त्यां पुरि कश्चिद्विप्रः पाणिनिव्याकरणोपाध्यायतां कुर्वाणः सिप्रासरित्प्रान्तवर्तिचिन्तामणिगणेशप्रणामगृहीताभिग्रहः छात्रैः फक्किकाव्याख्यानप्रश्नादिभिरुद्वेजितः कदाचित् प्रावृषि तस्याः सरितः पूरे प्रसर्पति कृतझम्पापातो दैवात् संघटित वृक्षस्तन्मूले करावलम्बनस्तरमासाद्य प्रत्यक्षं परशुपाणिं प्रणमन् तेन तत्साहसेतुष्टेन वरं वृणीष्वेत्यादिष्टः पाणिनिव्याकरणस्योपदेशं प्रार्थयमानस्तेन तथेति प्रतिपद्य खटिकार्पणपूर्वं प्रतिदिनं व्याकरणे व्याख्यायमाने षण्मासपर्यन्ते व्याकरणे समर्थिते सति लम्बो - दरं निर्विलम्बमनुज्ञाप्य प्रथमादर्श सहादाय तीं पुरीं प्रविश्य स्थण्डिले कस्यापि पुरस्य निषण्ण एव सुष्वाप । ततः प्रत्यूषे प्रेष्याभिस्तं तथाव ૧૩૮ १ लेलिह्य a २ जन्माग्रे a H ३ यो वर्द्धिमध्ये H ४ अञ्चितः C ५ तत्साहसानुष्ठानेन P६ षष्टिकार्पणपूर्व ७ सहादीयतां * नागार्जुनोत्पत्ति० a स्तम्भन तीर्थावतारप्रधौ पुस्तकान्तरे नोपलभ्येते इति डा.भाउदाजीना लिखितम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy