SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ प्रकाशः] प्रकीर्णकप्रबन्धाः । कमुपलक्षितं पृथक् कृत्वा शेषेषु यथोचितं सत्कृत्य विसृष्टेषु नृपतिर्यथेप्सितं प्रार्थयेति विद्याधरं विपद्विधुरं प्राह । राजादेशप्रमुदितेन तेनालसेवा सदैवास्तु इति प्रार्थिते नृपतिना तथेति प्रतिपन्ने तस्य निरवधिचातुर्य पालोच्य सर्वाधिकारभारे धुरंधरो व्यधायि । स च क्रमेण संपन्नसंपन् निजद्वात्रिंशदवरोधपुरन्ध्रीणामनुवासरं जात्यकपूरपूराभरणानि कारयन् प्राच्यानि निर्माल्यानीत्यवकरकूपिकायां त्याजयन् साक्षादैवतावतार इव दिव्यभोगान् भुञ्जानोऽष्टादशसहस्राणां ब्राह्मणानामभिलषिताभ्यवहारदानादनु स्वयमश्नाति । अथ कदाचिन् नृपतिना वैदेशिकभूपतिमभिषेणयितुं चतुर्दशविद्याधरो विद्याधरो प्रेषितो देशादेशान्तराण्यवगाहमानः कचिदिन्धनविहीने देशे विहितावासस्तेषां विप्राणां पाककाले सूपकाराणां तैलाभ्यक्तवस्त्रदुकूलान्येवेन्धनीकुर्वन् तान्विप्रान् रूढयैव भोजयामास । अथ प्रतिरिपुं निर्जित्य जितकाशितया व्यावृत्य प्राप्तनिजपुरी. परीसरः पिण्याकाभिलाषात् दुकूलज्वालनेन कुपितं भूपतिमवगम्य स्वं गृहमर्थिभिर्खण्टाप्य तीर्थोपासनवासनया संचरन् आनुपदिकेन नृपति. नानुनीयमानो मानोन्नततया नृपतेराशये स्वाभिलाषसंभवं निवेद्य काचिदापछ्य निजमवसानमसाधयत् । १३ तदनन्तरं सूहवदेव्या निजाङ्गजस्य कृते युवराजपदवीं याचितो नृपः संगृहिणीपुत्रायास्मद्वंशराज्यं न युज्यते इति बोधिता तं पति जिघांसुः म्लेच्छानाहूतवती । अथ स्थानपुरुषाणां समायातविज्ञप्तिकया तं व्यतिकरमवधार्य लब्धपद्मावतीवरप्रसादं सादरं कमपि दिग्वाससं निमित्तं पृष्टवान् । स पद्मावत्याः सप्रत्ययं म्लेच्छागमनिषेधरूपसमादेशं नृपतेर्विज्ञप्तवान् ॥ अथ कियदिनानां प्रान्ते तान् सन्निहितानाकर्ण्य स आशाम्बरः किमेतदिति पृष्ठस्तस्यामेव निशि नृपतिप्रत्यक्षं पद्मावत्याः १ जङ्घासहस्राणां. ३ २ संख्यासहस्राणां H c३ चतुर्दशविद्या धरोऽपि P४ कथं कथंचित् P .. ........... more Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy