SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १८१ प्रकाशः] प्रकीर्णकप्रबन्धाः। मां कथं न वृणोषीति पप्रच्छे । सेत्यवादीत् । साम्प्रतं तावत्क्षणदायाः प्रथमयामो व्यतीतस्तूर्ययामस्य ताम्रचूडेषु रुतमकुर्वाणेषु यद्यस्मिन्नगे कयाचिद्विद्यया द्वादश पोः कारयसि ततो भवन्तमभीष्टं करोमीति तदुक्तिसमनन्तरमेव तत्र कर्मणि चेटकपेटकं नियोज्य यामद्वयेन निर्मापिते सर्वपद्यानिवहे श्रीमाता स्वशक्तिवैभवेन कृतकं ताम्रचूडारवं कारयन्ती तेनागत्य विवाहाय सज्जीभवेत्यभिदधे । तव पद्याया निष्पाद्यमानायाः कुक्कुटरवः समजनिष्टेति तयोक्ते भवन्मायया कृतकं कृकवाकुरवं को न वेत्तीत्युत्तरं ददानः सरित्तीरे तज्जाम्योपढौकितविवाहोपहार) श्रीमात्रा समस्तविद्यामूलं तत्रिशूलमिहैव विहाय पाणिपीडनाय सवि. हितो भवेत्याहूय, प्रेमापत्हतचित्ततया तत्तथा कृत्वा सामीप्यमुपागतः तत्पदयोः कृतकान् शुनो नियोज्य हृदये तेन त्रिशूलेनाहत्य मारितः । इत्थं निःसीमशीललीलायितेन स्वजन्मातिवाहितवती । तस्यामखण्डशीलायां व्यतीतायां श्रीपुञ्जराजा तत्र शिखरबन्धरहितं प्रासादमकारयत् । यतः षण्मासान्ते तस्य गिरेरधोभागवर्ती अर्बुदनामा नागो यदा चलति तदा पर्वतकम्पो भवति । अतः शिखररहितास्तत्र सर्वेऽपि प्रासादाः । इति श्रीपुञ्जराजा तत्पुत्रीश्रीमाता तत्प्रवन्धः । . ८ कदाचिच्चौडदेशे गोवर्धनो नाम राजाभूत् तदायःस्तम्भ निबद्धा सभामण्डपपुरतो न्यायिना हन्यमाना न्यायघण्टा निनदति । अन्यदा तस्यैकसूनोः कुमारेण रथारूढेन पथि संचरताज्ञानवृत्त्या कश्चिद्वत्सतरो व्यापादितस्तन्माता सौरभेयी नयनाभ्यामजस्रमणि वर्षन्ती स्वपराभवप्रतीकाराय शृङ्गाग्रेण न्यायघण्टामवीवदत्तघण्टाटङ्कारं नृपो निशम्यार्जुनकीर्तिस्तमर्जुनीवृत्तान्तं मूलतोऽवगम्य निजं न्यायं परां कोटिमारोपयितुं प्रातःस्वयं स्यन्दने निविश्य प्रियपुत्रोऽपि तमेकमेव पुत्रं पथि नियोज्य तदुपरि तां धेनुं साक्षात्कृत्य रथं भ्रामयामास । तस्य भूभुजः १ पृष्टा a २ पद्यां हृद्यां b H ३ स्तम्भनिबद्धा c Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy