SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ प्रकाशः] प्रकीर्णकप्रबन्धाः। १७५ भूपतिरभूत् । तथा स सवितृप्रसादीकृतहयेऽधिरूढो नभश्चर इव स्वैरविहारी पराक्रमाक्रान्तदिग्वलयश्चिरं राज्यं कुर्वन् जैनमुनिसंसर्गात्प्रादुर्भूतसम्यक्त्वरत्नः श्रीशत्रुञ्जयस्य महातीर्थस्यामानमहिमानमवगम्य जीर्णोद्धारं चकार । ४ कदाचिच्छिलादित्यं सभापतीकृत्य चतुरङ्गसभायां पराजितेन देशत्यागिनो भाव्यमिति पणबन्धपूर्व सिताम्बरसौगतयोर्वादे संजायमाने पराजितान् सिताम्बरान्स्वविषयात्सर्वाननिर्वास्य श्रीशिलादित्यजामेयममेयगुणं मल्लनामानं क्षुल्लकं तत्र स्थितं समुपेक्ष्य स्वयं जितकाशिनः श्रीविमलगिरौ श्रीमूलनायकं श्रीयुगादिदेवं बुद्धरूपेण पूजयन्तो बौद्धा यावद्विजयिनस्तिष्टन्ति तावत्स मल्लः क्षत्रकुलोद्भवत्वात्तस्य वैरस्याविस्मरन् कृतप्रचिकीर्षुर्जेनदर्शनाभावात्तेषामेव सन्निधावधीयनानिन्दिनं तल्लीनचित्तः कदाचिद्ग्रीष्मवासरेषु निशीथकाले निद्रामुद्रितलोचने समस्तनागरिकलोके दिवाभ्यस्तं शास्त्रं महताभियोगेनानुस्मरन् तत्कालं गगने संचरत्या श्रीभारत्या के मिष्टा इति शब्दं पृष्टः स परितो वक्तारमनवलोक्य वल्ला इति तां प्रति प्रतिवचनं प्रतिपाद्य पुनः षण्मासान्ते तस्मिन्नेवावसरे प्रत्यावृत्तया देव्या केन सहेति भूयोऽभिहितस्तदा त्वनुस्मृतपूर्ववाक् गुडघृतेनेति प्रत्युत्तरं ददानस्तदवधानचमत्कृतयाभिमतं वरं वृणीष्वेत्यादिष्टः सौगतपराजयाय कमपि प्रमाणग्रन्थं प्रसादीकुरु इत्यर्थमभ्यर्थयन् नयचक्रग्रन्थार्पणेनानुजग्रहे । अथ देविप्रसादादवगततत्त्वः श्रीशिलादित्यमनुज्ञाप्य सौगतमठेषु तृणोदकप्रक्षेपपूर्व नृपतिसभायां पूर्वोदितपणबन्धपूर्वकं कण्ठपीठावतीर्णश्रीवाग्देवताबलेन श्रीमल्लस्तांस्तरसैव निरुत्तरीचकार । अथ राजाज्ञया सौगतेषु देशागतेषू जैनाचार्येष्वाहूतेषु स मल्लो बौद्धेषु जितेषु तेषु वादीति । तदनु भूपाभ्यर्थितैर्गुरुभिस्तस्मै पारितोषिके सूरिपदं ददे । स श्रीमल्लवादिसूरिनामा गणभृत्प्रभा १ देशताडितेन a c. २ यामेयं भागिनेयं c M ३ जितकासिनः । ४ भीष्मग्रीष्म K ५ अनिमित्तं A ६ प्रसादतस्तदैवावगततत्त्वः ७ देशोद्गतेषु cD वादिषु c Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy