SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १५७ प्रकाशः] कुमारपालप्रबन्धः । कमपि जगद्गुरोरङ्गे न लग्नं तदेव शोचामीति प्रभुगुणानां स्मारं स्मारं सुचिरं विलप्य प्रभूदिते दिने तदुपदिष्टविधिना समाधिमरणेन नृपः स्वर्लोकमलंचकार ॥ सं० ११९९ पूर्ववर्ष ३१ श्रीकुमारपालदेवेन राज्यं कृतं। ४४ सं० १२३० वर्षेऽजयदेवोऽभिषिक्तः । अस्मिन्पूर्वजप्रासादान् विध्वंसयति सीलनामा कौतुकी नूपपुरः प्रारब्धेऽवसरे कृतककामपटुतां मायया निर्माय तत्र स्वकल्पितं देवकुलपञ्चकं पुत्रेभ्यः समर्म्य ममान न्तरं भक्त्यतिशयेनाराधनीयमित्यनुशिक्ष्यान्त्यावस्थायां यावदास्ते तावतेन लघुपुत्रेण तत्तूर्णं चूर्णितमाकर्ण्य रे श्रीमदजयदेवेनापि पितुः परलोकानन्तरं तद्धर्मस्थानानि विध्वंसितानि त्वं त्वद्यापि मयि विद्यमानेऽपि चूर्णयन्नधमतमोऽसीति तदालापेन सत्रपस्तस्मादसमञ्जसाद्विरराम । ४५ तदनु श्रीअजयदेवेन श्रीकपर्दिमन्त्री महामात्यपदं दातुमत्यर्थमभ्यर्थितः प्रातः शकुनान्यवलोक्य तदनुमत्या प्रभोरादेशमाचरिष्यामीत्यभिधाय शकुनगृहं गतस्ततः सप्तविधं दुर्गादेव्या शकुनं याचितमवाप्य तच्छकुनं पुष्पाक्षतादिभिरभ्यर्च्य कृतकृत्यं मैन्यमानः पुरगोपुरान्तः प्राप्तो नदन्तं वृषभमीशानदिग्भागे विलोक्यातिशयस्मेरमनाः स्वं निवासमासाद्य भोजनानन्तरं मरुवृद्धेन यामिकेन शकुनस्वरूपं पृष्टः श्रीकपर्दी तदने तत्स्वरूपमादिश्य तांस्तुष्टाव । ततो मरुवृद्धः__२९) नद्युत्तारेऽध्ववैषम्ये तथा सन्निहिते भये । नारीकार्ये रणे व्याधौ विपरीता प्रशस्यते ॥ इति प्रामाण्याद्भवानासन्नव्यसनतया मतिभ्रंशात्प्रतिकूलमप्यनुकूलं मनुते । यस्त्वया वृषभः शुभः परिकल्पितः सोऽपि भवद्व्यापत्त्या शिवस्याभ्युदयं पश्यंस्तद्वाहनोक्षों जगर्जेति तदुक्तिमवमन्यमाने तस्मिन्नापृच्छय H ३ विपरीतःc ४ मनुषे १ सीलण नामा H २ कृतकृत्यमानी aH ५ तद्वदाहात उक्षा P Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy