SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः । [चतुर्थः र्द्विगुणैः सुभटैः समं चरमितैः प्रयाणैबम्बेरानगरे प्राकारं वेष्ठयामास । अथ तस्यां निशि सप्तशतीकन्यानां विवाहः प्रारब्धोऽस्तीति नगरलोकात् श्रुत्वा तद्विवाहार्थं तथैव निशि स्थित्वा प्रातः प्राकारपरावर्त चकार । तत्राधिगतं स्वर्णकोटीसप्तकं तथैकादशसहस्राणि वडवानामिति संपत्तिगर्भितां विज्ञप्तिकां वेगवत्तरैश्चरैर्नृपं प्रति प्राहिणोत् । स्वयं तत्र देशे श्रीकुमारपालनृपतेराज्ञां दापयित्वाऽधिकारिणो नियोज्य व्याघुटितः श्रीपत्तनं प्रविश्य राजसौधमधिगम्य नृपं प्रणनाम । नृपस्तदुचितालापावसरे तद्गुणरञ्जितोऽप्येवमवादीत् । तव स्थूललक्ष्यतैव महद्दषणं । (वाहानीकयोःसाधनादौ साधीयान् नेदीयान्प्रयोगनिष्पत्तिरक्षामन्त्रो नो चेच्चक्षुर्दोषेणोर्द्ध एव विदीर्यसे ) यं व्ययं भवान्कुरुते तादृशं कर्तुमप्यह न प्रभूष्णुः। स इति श्रुतनृपादेशान्नृपं प्रति "तथ्यमेव तदादिष्टं देवेन" एवंविधं व्ययं कर्तुं प्रभुनै प्रभवति । यतः स्वामी परंपरया न नृपतेः सुतः । अहं तु नृपपुत्रोऽतो मयैव द्रव्यव्ययः साधीयान्क्रियते । तेनेति विज्ञप्ते नृपतिस्तोषं करोतु रोषं वा निकषः निकषा काञ्चनश्रियमासादयतीत्यनय॑तां लभमानो नृपतिविसृष्टः स्वं पदं प्रपेदे । इति राजघरट्टचाहडप्रबन्धः ॥ ३९ अर्थ तस्य कनीयान्भ्राता सोलाकनामा मण्डलीकः सत्रागारबिरुदं बभार । ४. अथ कदाचिदानाकनामा मातृष्वस्रीयस्तत्सेवागुणतुष्टेन राज्ञा दत्तसामन्तपदोऽपि तथैव सेवमानः । कदापि मध्यन्दिनावसरे चन्द्रशालापल्यङ्कस्थितस्य नृपतेः पुरो निविष्टः सहसा कमपि प्रेष्यं तत्र प्राप्त १ मत्वा PH २ bc D आदर्शेषु कोष्ठकान्तर्गता पतिर्नास्ति ३ कर्तुं क्षमते c * यतोहं स्वामिवलेन व्ययं करोमि । स्वामी तु कस्य बलेनातो मयैष द्रव्यव्ययः साधीयान् क्रियते इति वदन् प्रमुदितेन राज्ञा सत्कृतो राजसदस्यनयंतां लभमानो रा. जघरबिरुदं लब्ध्वा । इति जिनमण्डनोपाध्यायकृतकुमारपालप्रबन्धे प. ५४ ४ रोष वा निकषा A ५ बाहड A ६ तथा A Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy