SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १५० प्रबन्धचिन्तामणिः। [ चतुर्थः दोषाभ्यां तिरोहिताः । कार्पण्यादयो भवदोषाः समरशूरतापरनारीसहोदरतागुणाभ्यामपहृता इति तद्वचसा स पृथ्वीनाथः स्वस्थावस्थस्तस्थौ । इत्यालिगप्रबन्धः। ३३ अथ पुरा श्रीसिद्धराजराज्ये पाण्डित्ये स्पर्धमानो वामराशिनामा विप्रः प्रभूणां प्रतिष्ठानिष्ठामसहिष्णुः । २३) यूकालक्षशतावलीवलवलल्लोलोल्लसत्कम्बलो दन्तानां मलमण्डलीपरिचयादुर्गन्धरुद्धाननः । नासावंशविरोधनानिणिगिणत्पादप्रतिष्ठास्थितिः सोऽयं हेमडसेवडः पिलपिलत्खल्लिः समागच्छति ॥ इति तदीयममन्दं निन्दास्पदं वचनमाकान्तभूतामर्षवत्तर्जनापरं वचः प्रभुभिरभिहितं पण्डित विशेषणं पूर्वमिति भवता किं नाधीतमतोऽतः परं सेवडहेमड इत्यभिधेयमिति, सेवकैः कुन्तपश्चाद्भागेनाहत्य मुक्तः । श्रीकुमारपालनृपते राज्येऽशस्त्रो वध इति तद्वत्तिच्छेदः कारितः । स ततः परं कणभिक्षया प्राणाधारं कुर्वाणः प्रभूणां पौषधशालायाः पुरतः स्थितः । आनादिभूपतितपस्विभिरधीयमानयोगशास्त्रमाकर्पोऽशठतयेदमपाठीत्.२४) आतङ्ककारणमकारणदारुणानां वक्त्रेषु गालिगरलं निरगालि येषाम् । तेषां जटाधरफटाधरमण्डलानां श्रीयोगशास्त्रवचनामृतमुज्जिहीते ॥ इति तद्वचसाऽमृतधारासारेण निर्वाणपूर्वोपतापास्तस्मै द्विगुणां वृत्ति प्रसादीकृतवन्तः । इति वामराशिप्रबन्धः । ३४ अथ कदाचिच्चारणौ द्वौ सुराष्ट्रमण्डलनिलयौ दूहाविद्यया स्प१ लिशशत. २ गिणिगिणी L ३ वक्त्रेण ० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy