SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ प्रकाशः ] कुमारपालप्रबन्धः । माणे मम द्वेधावाङ्मुखत्वमुचितं । तथा वरमराजकं विश्वं न तु मूर्खो राजेति प्रतीपभूपालमण्डलेष्वपकीर्तिः प्रसरति । अतोऽस्मिन्नर्थे उपमेयं औपम्यं उपमेत्याद्याः शब्दाः शुद्धाः । तद्वचनानन्तरं राज्ञा शब्दव्युत्पत्तिहेतवे पञ्चाशद्वर्षदेश्येन कस्याप्युपाध्यायस्य समीपे मातृकापाठात्प्रभृति शास्त्राण्यारभ्यैकेन वर्षेण वृत्तिकाव्यत्रयमधीतं विचारचतुर्मुख बिरुदमर्जितम् ॥ इति विचार चतुर्मुखश्रीकुमारपालाध्ययनप्रबन्धः । - २१ कस्मिन्नवसरे विश्वेश्वरनामा कविर्वाराणस्याः श्रीपत्तनमुपागतः श्रीहेमसूरीणां संसदि प्राप्तः । तत्र कुमारपालनृपतौ विद्यमाने सः - १८) * पातु वो हेमगोपालः कम्बलं दण्डमुद्वहन् । इति भणित्वा विलम्बमानो नृपेण सक्रोधं निरैक्ष्यत । षड्दर्शनपशुग्रामं चारयन् जैनगोचरे ॥ इत्युत्तरार्धपरितोषितसमाजलेोकः श्रीरामचन्द्रादीनां समस्यां सम . र्पयामास । १९) व्यषिद्धा नयने मुखं च रुदती स्वे गर्हिते कन्यका नैतस्याः प्रसृतिद्वयेन सरले शक्ये पिधातुं दृशौ । सर्वत्रापि च लक्ष्यते मुखशशिज्योत्स्नावितानैरियमित्थं मध्यगता सखीभिरभितो हग्मीलनाकेलिषु ॥ व्याषिद्धा इति श्रीकपर्दिना महामात्येन पूरितायां समस्यायां पश्चात्कविः पञ्चाशत्सहस्रमूल्यं निजं ग्रैवेयकं श्रीकपर्दिनः कण्ठे श्रीभारत्याः पदमित्युच्चरन्निवेशयामास । अथ तद्वैदग्ध्यचमत्कृतेन नृपतिना स्वसन्निधौ स्थाप्यमानः । १४५ १ वृत्तिकाव्यानां Bh C * प्रबन्धोऽयं कुमारपालचरितेऽपि वर्तते २ कथमिति चेज्जिनमण्डनसूरिकृतकुमारपालचरित्रं द्रष्टव्यम् * पद्यमिदं प्रभावकचरिते श्रीहेमचंद्रसूरिप्रबन्धे ( ३०४ ) ३ निरीक्षितः b ४ गोपुरे C५ इदं चतुर्थ चरणं दृश्यते C D आदर्शयोः । १९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy