SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १४२ प्रबन्धचिन्तामणिः। [चतुर्थः प्रविष्टो न निर्यातीति स्फुटनहेतुं शिल्पिभिनिर्णीयोक्तं, भ्रमहीने च प्रासादे निरन्वयंतां विमृश्याऽन्वयाभावे धर्मसंतानमेवास्तु पूर्वोद्धारकारिणां श्रीभरतादीनां पङ्क्तौ नामास्तु, इति तेन मन्त्रिणा दीर्घदर्शिन्या बुद्धया विभाव्य भ्रमभित्त्योरन्तरालं शिलाभिर्निचितं विधाय वर्षत्रयेण निष्पन्ने प्रासादे कलशदण्डप्रतिष्ठायां श्रीपत्तनसंघ निमन्त्रणापूर्वमिहानीय महता महेन सं० १२ ११ वर्षे ध्वजारोपं मन्त्री कारयामास । स शैलमयबिम्ब मम्माणीयखनीसक्तपरिकरमानीय निवेशितवान् । श्रीवाग्भटपुरे नृपतिपितुर्नाम्ना त्रिभुवनपालविहारे श्रीपार्श्वनाथं स्थापितवान् । तीर्थपूजाकृते च चतुर्विंशत्यारामान्नगरे परितो वर्ष देवलोकस्य ग्रासवासादि दत्वा चैतत्सर्वं कारयामास । अस्य तीर्थोद्धारस्य व्यये१५) षष्टिक्षयुता कोटी व्ययिता यत्र मन्दिरे । स श्रीवाग्भटदेवोऽत्र वर्ण्यते विबुधैः कथम् ॥ इति श्रीशत्रुजयोद्धारप्रबन्धः॥ १८ अथ विश्वकसुभटेन श्रीआम्रकभटेन पितुः श्रेयसे भृगुपुरे श्रीशकुनिकाविहारप्रासादप्रारम्भे खन्यमाने गर्तापूरे नर्मदासान्निध्याद. कस्मान्मिलितायां भूमौ बाधितेषू कर्मकरेषु कृपापरवशतयात्मानमेवामन्दं निन्दन्सकलत्रपुत्रस्तत्र झम्पामदात् । तत्साहसातिशयात्तस्मिन्प्रत्यूहे निराकृते । शिलान्यासपूर्व समस्तप्रासादे निष्पन्ने कलशदण्डप्रतिष्ठावसरे नगरसंधानिमन्त्रणपूर्व तत्रानीय यथोचितमशनवस्त्राभरणादिसन्मानैः सन्मान्य सामन्तेषु यथागतं प्रहितेषु, आसन्ने लग्ने संजायमाने १ निरवद्यतां P२ सं० ११६५ A b ३ बिम्बस्य ॥ P H L ४ श्री वासादि C H ५ सप्तषष्टि a ६ वषैरुद्रार्कसंख्यैः स्वजनकवचसा विक्रमार्कात्प्रयातर्यातैनाः सिद्धशैले जिनपतिभुवनं वाग्भटः प्रोदधार ॥ ( इति चा. कु. च. स. ७) ७ छादितेषु CHL ८ प्रसंगोऽयं चारित्रसुंदर गणिकृतकुमारपालचरिते सप्तमसर्गे सविस्तर वर्णितः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy