SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ प्रकाशः] कुमारपालप्रबन्धः। परिवृढेनानुयुक्तः श्रीमान्किञ्चिदुचितं विचिन्त्य गुरुरूचिवान् । यदस्य धर्मकार्यस्यान्तरायपरिहाराय ध्वजारोपं यावदजिह्मब्रह्मसेवा, अथवा मद्यमांसनियमो द्वयोरेकतरं किमप्यङ्गीकरोतु नृप इत्यभिहिते तद्वचनमाकर्ण्य मद्यमांसनियममभिलषन् , श्रीनीलकण्ठोपरि विमुच्योदकं तं चाभिग्रहं जग्राह । संवत्सरद्वयेन तस्मिन्प्रासादे कलशध्वजाधिरोपं यावनिवृत्ते तं नियमं मुमुक्षुर्गुरूननुज्ञापयंस्तैरूचे । यद्यनेन निजकीर्तनेन सार्धमर्धचन्द्रचूडं प्रेक्षितुमर्हसि, तद्यात्रापर्यन्ते नियममोचनावसर इत्यभिधायोत्थिते श्रीहेमचन्द्रमुनीन्द्रे षट्त्रिंशद्गुणैरुन्मीलन्नीलीरागरक्तहृदयस्तमेकमेव संसदि प्रशशंस सः । निर्निमित्तवैरीपरिजनस्तत्तेजःपुञ्जमसहिष्णुः११) उज्ज्वलगुणमभ्युदितं क्षुद्रो द्रष्टुं न कथमपि क्षमते । दग्ध्वा तनुमपि शलभो दीप्तं दीपार्चिषं हरति । इति न्यायात्पृष्टिमांसादनदोषमप्यङ्गीकृत्य तदपवादानवादीत् । यदयममन्दछन्दानुवृत्तिपरः सेवाधर्मकुशलः केवलं प्रभोरभिमतमेव भाषते यद्येवं न तदा प्रातरुपेतः श्रीसोमेश्वरयात्रार्थमत्यर्थमभ्यर्थेत । राज्ञा तथाकृते सूरयः प्रोचुः । यबुभुक्षितस्य किं निमन्त्रणाग्रह, उत्कण्ठितस्य किं केकारवश्रावणमिति लोकरूढेस्तपस्विनामधिकृततीर्थाधिकाराणां को नाम नृपतेरत्र निर्बन्धः । इत्थं गुरोरङ्गीकारे किं भवद्योग्यं सुखासनप्रभृति वाहनादि च लभ्यतामितीरिते वयं चरणचारेणैव सञ्चरन्तः पुण्यमुपालभामहे परं वयमिदानीमापृच्छय मितैर्मितैः प्रयाणकैः श्रीशत्रुजयोज्जयन्तादिमहातीर्थानि नमस्कृत्य भवतां श्रीपत्तनप्रवेशे मिलिष्याम इत्युदीर्य तत्तथैव कृतवन्तः । १ सुभाषितार्णवेऽपि दृश्यते पद्यमिदं २ श्रीसोमेश्वरयात्रायां भवान्सहागच्छतु इति गदितः स परतीर्थपरिहारान्न तत्रागमिष्यतीति अस्मन्मतमेवं प्रमाण नृपस्तद्वाक्यमाकर्ण्य प्रातरुपागतं श्रीहेमचन्द्राचार्य II M १८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy