SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १३३ प्रकाशः] कुमारपालप्रबन्धः क्षितचित्तवृत्तिः श्रीमुखेन स नृपः स्खलनाकारिणां वेत्रिणां सर्वसमयकं ददौ । १० अथ तत्र गतायाते संजायमाने सूरेर्गुणग्रामस्तवं कुर्वत्युपितौ पुरोधा विरोधादामिगः प्राह-. ६) "विश्वामित्रपराशरप्रभृतयो ये चाम्बुपत्राशिनस्तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्दैव मोहं गताः । आहारं सघृतं पयोदधियुतं भुञ्जन्ति ये मानवा स्तेषामिन्द्रियनिग्रहः कथमहो दम्भः समालोक्यताम् ॥ इति तद्वचनानन्तरं हेमचन्द्रः७) सिंहो बली द्विरदशूकरमांसभोजी संवत्सरेण रतमेति किलैकवेलम् । पारावतः खरशिलाकणभोजनोऽपि कामी भवत्यनुदिनं वद कोऽत्र हेतुः ॥ तन्मुखमुद्राकारिणि प्रत्युत्तरेऽभिहिते सति, नृपप्रत्यक्षं केनापि मत्सरिणैते सिताम्बराः सूर्यमपि न मैन्यन्ते इत्यभिहिते । ८) अधाम धामधार्मीक वयमेव हृदि स्थितम् । यस्यास्तव्यसने ज्ञाते त्यजामो भोजनं यतः ॥ इति प्रामाण्यनैपुण्याद्वयमेव सूर्यभक्ताः नैते इति तन्मुखबाधे जाते । कदाचिद्देवतावसरक्षणे सौधमागते मोहान्धकारधिक्कारचन्द्रे श्रीहेमचन्द्रे यशश्चन्द्रगणिना रजोहरणेनासनपदं प्रमाय॑ कम्बले तत्र निहिते, अज्ञात १ सर्वदायकं दुयकं HL २ भजन्ते c * पद्यमिदं प्रभावकचरिते श्रीहेमचन्द्रसुरिप्रबन्धे वर्तते ( १७६ ) T ... ... ... ... (१७९) भर्तहरि. शतके प्रकीर्णे (श्लो. ४१) ३ आधाम LC ४ धामधामेदं H L ५ स्फुटं H ६ तत्त्वत इति तन्मुखबन्धे H L Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy