SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रबन्धः । प्रकाशः ] लयन् कुमारपालनाम्नस्तपस्विनः कमलकोमलौ चरणौ करतलेन संस्पृश्य तदूर्ध्वरेखादिभिर्लक्षणै राज्याोऽयमिति निश्चलया दृशापश्यत् । तदिङ्गितैस्तं विरुद्धं विबुध्यमानस्तदैव वेषपरावर्तेन काकनाशं नष्टः । आलिङ्गनाम्नः कुलालस्यालये मृत्पात्राणां पाके रच्यमाने तदन्तर्निधाय तदानुपदिके भ्यो रक्षितः स क्रमात्ततः सञ्चरन् तद्विलोकनाकुलितेन राजलोकेन त्रासितः सन्निहितां दुर्गमां भूमिमनवलोक्य वापि क्षेत्रे क्षेत्ररक्षकैः क्रियमाणछिन्नकण्टकिशाखिशाखानिचये समुपचीयमाने तं तदन्तर्निधाय तेषु स्वस्थानमागतेषु, पदिकेन पदे तत्रानीते सर्वथा तत्रासम्भावनया कुन्ताग्रेण भिद्यमानेऽपि तस्मिस्तमनासाद्य व्यावृत्ते राजसैन्ये द्वितीयेऽहनि क्षेत्राधिकृतस्ततः स्थानादुद्धृतः पुरतः क्वापि प्रान्तरोन्तत्रजन् कापि तरुच्छायायां विश्रान्तः सन् बिलान्मूषकं मुखेन रूप्यनाणकमाकर्षन्तं निभृतया दृशा विलोक्य यावदेकविंशसंख्यानि दृष्ट्वा पुनस्तेभ्य एकं गृहीत्वा बिलं प्रविष्टे पार्थात्यानि तु सर्वाणि स गृहीत्वा यावन्निभृतीभवति तावत्स तान्यनवलोक्य तदा विपेदे । स तच्छोकव्याकुलितमानसश्चिरं परितप्य पुरतो ब्रजन्, कयापीभ्यवध्वा श्वशुरगृहापितृगृहं व्रजन्त्या, पथि पाथेयाभावादिनत्रयं क्षुत्क्षामकुक्षिीतृवात्सल्यात्कर्पूरपरिमलशालिशालिकरम्बेण सुहितीचक्रे । तदनु स विविधानि देशान्तराणि परिश्रमन्स्तम्भतीर्थे महं० श्रीउदयनपार्श्वे शम्बलं याचितुमागतः । तं पौषधशालायामागतमाकर्ण्य तत्रागते तस्मिन्नुदयनेन पृष्टः श्रीहेमचन्द्राचार्यः प्राह । लोकोत्तराणि तदङ्गलक्ष णानि वीक्ष्य सार्वभौमोऽयं नृपतिर्भावीत्यादिशत् । आजन्म दारिद्योपद्रुततया तां वाचं 'संदिग्धतया मन्यमानेन तेन, क्षत्रिये नाँसंभाव्यमेतदिति विज्ञप्ते, सं. ११९९ वर्षे कार्तिकवदि२ रवौ हस्तनक्षत्रे यदि भवतःपट्टाभिषेको न भवति तदाऽतःपरं निमित्तावलोकसंन्यास इति पत्रकमालिख्यैकं १ राजपुरुषेभ्यो रक्षितः M K H २ दुर्गभूमिमवलोक्य a P ३ ध्वाक्षरक्षकैः M H ४ प्रातरान्तजन् MP ५ पश्चादन्यानि H ६ यथार्थाममन्यमानेन H ७ क्षत्रियेणासंभाव्य Ma K Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy