SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः । [ तृतीयः र्व्यवसितं । तदा राजा सविस्मयस्मेरमनास्तेषां बूंच इति बिरुदं ददौ । इति वाराहीयात्रेचप्रबन्धः । ११६ ४६ अथ कदाचिच्छ्रीजयसिंहदेवो नृपतिर्मालवकं विजित्य प्रत्यावृत्तः । उञ्झांग्रामे निवेशित स्कन्धावारस्तै ग्रामीणैः प्रतिपन्नमातुलैर्दुग्धपरिपूर्णाहारादिभिरुचितैः परितोष्यमाणस्तस्यामेव निशि गुप्तवृत्त्या तद्दुःखसुखजिज्ञासुः कस्यापि ग्रामीणस्य गृहे गतः । गोदोहा दिव्याकुलतायामपि तेन कस्त्वमिति पृष्टः, श्रीसोमेश्वरस्य कार्पटिकोऽहं महाराष्ट्र - देशवास्तव्य इति तस्मै न्यवेदयत् । तेन च नृपतेः पार्श्वे महाराष्ट्रदेशस्य तन्महाराजस्य च गुणदोषवृत्तान्ते पृच्छमाने स नृपतेस्तस्य षण्णवतिराजगुणान्प्रशंसंस्तत्पार्श्वे गूर्जराधीश्वरगुणदोषान्पृच्छन् । श्रीसि द्धराजस्य प्रजापालनपाण्डित्यं सेवकेष्वतुल्यवात्सल्यं चेत्यादीन् गुणान्वर्णयंस्तेन कृत्रिमदोषे उत्पाद्यमाने सोऽस्माकं मन्दभाग्यतया नृपतेरपुत्रतालक्षण एव दोष इत्यभ्रूणि मुञ्चन्नृपतिं निःकैतववृत्त्या परितोषया - मास । अथ प्रभातकाले संभूय सर्वेऽपि मिलिता नृपदर्शनोत्कण्ठिताः सौधमध्यास्य प्रभोः प्रणामानन्तरं तदतुल्यपल्यङ्के निविष्टाः आसनदाननियोगिभिः प्रदत्तेऽपि पृथगासने तत्सौकुमार्यं करस्पर्शेन विचिन्त्य वयमिह सुखसुखेन निषण्णास्तिष्ठाम इति नृपे स्मितमुखाम्भोजे तस्थुः । इति उज्य वास्तव्यग्रामणानां प्रबन्धः । ४७ अथ कदाचिज्झील ज्ञातीयमांगूनामा क्षत्रियः श्रीसिद्धराजसेवार्थं सभां गच्छन् प्रत्यहं पाराचीद्वयं भूमौ निहत्योपविशति । उद्ध १ ब्रूच P : अयं वाराहीयाबूचप्रबंध : पुस्तकान्तरे नोपलभ्यते इति डा. भाउ दाजीना स्वपुस्तके लिखितमस्ति २ कुण्डा ९ झञ्झा D ३ आवाहादिभिः A b प्रवाहादिभिः P ४ कुण्डा c x अयं उञ्झा ( कुंडा ) वास्तव्य ग्रामीणानां प्रबन्धः पुस्तकान्तरे नोपलभ्यते इति डा. भाउ दाजीना स्वपुस्तके लिखितमस्ति ५ गाला b ६ पाषाणभेदकः शस्त्रविशेषः ( पराई भाषायां ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy