SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः । [ तृतीयः इत्थं वर्णयतो नभस्तव यशो जातं स्मृतेर्गोचरं । तत्तस्मिन्भ्रमरायते नरपते वाचस्ततो मुद्रिताः ॥ इति नृपं प्रत्याशिषं ददौ । वाचस्ततो मुद्रिता इति तदीयापशब्देन सभ्यास्तं स्वहस्तबन्धनमिति विमृशन्तो मुमुदिरे । अथ देवाचार्याः ११० ३५) नारीणां विदधाति निर्वृतिपदं श्वेताम्बरप्रोल्लसकीर्तिस्फातिमनोहरं नयपथप्रस्तारभङ्गीगृहम् । यस्मिन्केवलिनो न निर्जितपरोत्सेकाः सदा दन्तिनो राज्यं तज्जिनशासनं च भवतैश्चौलुक्य जीयाच्चिरम् ॥ १ ॥ नृपं प्रतीमामाशिषं ददौ || अथ वादी कुमुदचन्द्रः केवलिभुक्तिस्त्रीनिर्वाणचीर निराकरणपक्षोपन्यासं पारावतविहङ्गमसदृशया स्खलितगिरौ प्रारभमाणः सभ्यैरन्तर्विह सद्भिः प्रत्यक्षप्रशंसा परैः पुरस्क्रियमाणः । कियदुपन्यासप्रान्त उच्यतामित्युक्तो देवाचार्यः । प्रलयकालोन्मीलितप्रचण्डपवनक्षुभिताम्भोधिनिचितवीचीसमीचीभिर्वाग्भिवृहदुत्तराध्ययनवृत्तेश्चतुरशीतिविकल्पजालोपन्यासे प्रक्रान्ते भास्वत्प्रतिभाप्रसरपरिम्लानायमानकुमुदः कुमुदचन्द्रः सम्भ्रमभ्रान्तचेतास्तद्वचनान्यवधारयितुमक्षमो भूयस्तमेवोपन्यासं समभ्यर्थितवान् | सिद्धराजसभ्येषु निषेधपरेष्वपि अप्रमेयप्रमेयलहरीभिस्तं प्रमाणाम्भोधौ मज्जयितुं प्रारब्धे षोडशे दिने आकस्मिके देवाचा - र्यस्य कण्ठावग्रहे मान्त्रिकैः श्री यशोभद्रसूरिभिरँतुल्यकुरुकुल्लादेवीप्रसादलब्धवरैस्तत्कण्ठपीठात्क्षणात्क्षपणककृत कार्मणानुभावात्केशचण्डुकः पातयांचक्रे । तच्चित्रनिरीक्षणाच्चतुरैः श्रीयशोभद्रसूरिः श्लाघ्यमानः, कुमुदचन्द्रश्चामन्दं निन्द्यमानः, प्रमोदविषादौ दधाते । अथ श्रीदेवसूरिभिरुपन्या 1 Jain Education International ★ १ यस्मिन् H २ विनिर्जित. Hac ३ भवतो: Ab + पद्यमिदं मुद्रितकुमुदचन्द्रादुद्धृतम् (अं. ५ श्लो. ५) ४ उपमया सस्खलितस्खलित गिरा ० ५ पुरस्कि ग्रमाणैः A ६ उपन्यासप्रक्रमे भ्रश्यत ७ वीरसूरिभिश्व ० ८ यशोभद्रसूरिभिः P For Private & Personal Use Only - www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy