SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः । [तृतीयः १५) हरिरिवबलिबन्धकरस्त्रिशक्तियुक्तः पिनाकपाणिरिव ।। कमलाश्रयश्च विधिरिव जयति श्रीमूलराजनृपः ॥ इत्यादि । तथा च श्रीसिद्धराजदिग्विजयवर्णने व्याश्रयनामा ग्रन्थः कृतः । १६) भ्रातः संवृणु पाणिनिप्रलपितं कातन्त्रकन्था वृथा मा कार्षीः कटु शाकटायनवचः क्षुद्रेण चान्द्रेण किम् । कः कण्ठाभरणादिभिर्बठरयत्यात्मानमन्यैरपि श्रूयन्ते यदि तावदर्थमधुराः श्रीहेमचन्द्रोक्तयः ॥ २८ अथ श्रीसिद्धराजेन पत्तने यशोवर्मराज्ञस्त्रिपुरुषप्रभृतीन्सर्वानपि राजप्रासादान्सहस्रलिङ्गप्रभृतीनि च धर्मस्थानानि दर्शयित्वा प्रतिवर्ष देवदायपदे कोटिद्रव्यव्ययं निवेद्यैतत्सुन्दरमसुन्दरं वेति यशोवर्मा पृष्ट इत्यवादीत्। अहं ह्यष्टादशलक्षप्रमाणमालवदेशाधिपस्त्वत्तः पराभवपात्रं कथं भवेयं, परं महाकालदेवस्य दत्तपूर्वत्वाद्देवद्रव्यं मालवकः । तद्भुञ्जानास्तत्प्रभावादुदितास्तमिता वर्तामहे । भवदीयान्वयराजानोऽप्येतावद्देवद्रव्यव्ययनिर्वाहाक्षमा लुप्तसर्वदेवदायपदा विपदां पदं भविष्यन्ति । २९ अथ सिद्धराजः कदापि सिद्धपुरे रुद्रमहाकालप्रासादं कारयितुकामः कमपि स्थपतिं स्वसन्निधौ स्थापयित्वा प्रासादप्रारम्भलग्ने तदीयकलासिकां लक्षद्रव्येणोत्तमर्णगृहीतां मोचयामास । तां वंशशलाकामयीमालोक्य किमेतदिति राजा पप्रच्छ । ततो मया प्रभोरौदार्यपरीक्षानिमित्तमेतत्कृतमिति स्थपतिरुक्तवान् । ततस्तद्र्व्यमनिच्छतेऽपि नृपतिनापितं । ततः क्रमेण त्रयोविंशतिहस्तप्रमाणे परिपूर्णे प्रासादेऽश्वपतिगजपतिनरप १ चौलुक्यवंशोपश्लोकान् द्वात्रिंशत्सूत्रपादान्तेषु द्वात्रिंशत् श्लोकानवलोक्य प्रमुदितो राजा व्याकरणं विस्तारयामास BH L M २ कथां H L ३ वर्धापयित्वा C ४ मूलनाशं विनक्ष्यन्ति H L M ५ कस्मिन्नप्यवसरे HL ६ तह. व्यप्रत्यर्पणापूर्व त्रयोविंशति H L Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy