SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः । [तृतीयः ६) जो जेण शुद्धधम्मम्मि ठाविउ संजएण गिहिणा वा । . सो चेव तस्स जायइ धम्मगुरू धम्मदाणार्ड ॥ इति तस्मै मूलवृत्तान्तं निवेद्य तस्य दृढधर्मतां निर्ममे ॥ इति मन्त्रिसान्तूदृढधर्मताप्रबन्धः ॥ १८ अथानन्तरं श्रीमयणल्लदेव्या जातिस्मरणात्पूर्वभववृत्तान्ते श्रीसिद्धराजस्य निवेदिते श्रीमयणल्लदेवी श्रीसोमनाथयोग्यां सपादको टिमूल्यां हेममयीं पूजामादाय यात्रायां प्रस्थिता । बाहुलोडनगरं प्राप्ता पञ्चकुलेन कदर्यमानेषु कार्पटिकेषु राजदेयविभागस्याप्राप्त्या सबाष्पं पश्वानिवृत्त्यमानेषु मयणल्लदेवी हृदयादर्शसङ्क्रान्ततद्वाघां स्वयमेव पश्चाद्व्याघुटन्ती अन्तरोन्तरायभूतेन श्रीसिद्धराजेन विज्ञप्ता स्वामिन्यलममुना सम्भ्रमेण कुतो हेतोः पश्चान्निवर्त्यते इति राज्ञोक्ते यदैव सर्वथाऽयं करमोक्षो भवति तदैवाहं श्रीसोमेश्वरं प्रणमामि अशनं गृह्णामि नान्यथेति' श्रुत्वा राज्ञा पञ्चकुलमाकार्य तत्पट्टकस्याके द्वासप्ततिलक्षानुत्पद्यमानान्विमृश्य तं पट्टकं विदार्य मातुः श्रेयसे करं मुक्त्वा करे जलचुलुकं मुञ्चति स्म । १९ ततः श्रीसोमेश्वरं गत्वा तया सुवर्णपूजया देवमभ्यर्च्य तुलापुरुषगजदानादीनि महादानानि दत्त्वा । ७) *संग्रहैकपरः प्राप समुद्रोऽपि रसातलम् । दाता तु जलदः पश्य भुवनोपरि गर्जति ॥ १॥ ८) सेनाङ्गपरिवाराचं सर्वमेव विनश्यति । दानेन जनितानन्दे कीतिरेकैव तिष्ठति ॥ २ ॥ १ तद्वाष्पधारा d २ अन्तरायीभूतेन H ३ नान्यथा किं चातः परमशननीरयोनियमश्च. D M * सुभाषितार्णवेऽपि पद्यमिदम् । ७, ८, ९ पद्यत्रितयं a H L M आदर्शेषु नोपलभ्यते B आदर्श P मुद्रित पुस्तके चोपलभ्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy