SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः। [ तृतीयः - इति महोपप्लवमुपस्थितमवगम्य मातृभक्त्या तां परिणीय श्रीकर्णः पश्चादृष्टिमात्रेणापि न संभावयामास ॥ - ५ अन्यदा कस्यामप्यधमयोषिति साभिलाषं नृपं मुञ्जालमन्त्री कञ्चुकिना विज्ञाय तद्वेषधारिणीं कृत्वा मयणल्लदेवीमृतुस्नातां रहसि प्राहिणोत् । तामेव स्त्रियं जानता नृपतिना सप्रेमभुज्यमानायास्तस्या आधानं समजनि तदा च तया संकेतज्ञापनाय नृपकरान्नामाङ्कितमङ्गुलीयक निजामुल्यां न्यधायि । अथ प्रातस्तद्दर्विलसितात्माणपरित्यागोद्यतो नृपतिः स्मास्तित्प्रायश्चित्तं पप्रच्छ । तैस्तप्तताम्रमयपुत्तलिकालिङ्गनमिति निवेदिते प्रायश्चि तं तथैव चिकीर्षवे स मन्त्री यथावदवदत् ॥ ६xमुलग्ने तस्य जातस्य सूनो नृपतिर्जयसिंह इति नाम निर्ममे । स बालस्त्रिवार्षिकः कुमारैः सवयोभिः सह रममाणः सिंहासनमलञ्चक्रे । नैमित्तिकैस्तस्मिनेवाभ्युदयिके' लग्ने निवेदिते राजा तदैव तस्य सूनो राज्याभिषेकं चकार ॥ सं० ११५० वर्षे पौषवद ३ शनी श्रवणनक्षत्रे वृषलग्ने श्रीसिद्धराजस्य पट्टाभिषेकः । ७ स्वयं तु, आशापल्लीनिवासिनमाशाभिधानं भिल्लमभिषेणयन् भैरवदेव्याः शकुने जाते तत्र कोछरबाभिधानदेव्याः प्रासादं च कारयित्वा षट् लक्षाधिपं भिल्लं विजित्य तत्र जयन्ती देवी प्रासादे स्थापयित्वा तथा कर्णेश्वरदवतायतन कर्णसागरतडागालङ्कृतं चकार । कर्णावतीपुरं निवेश्य स्वयं तत्र राज्यं चक्रे । १ इति न्यायात्तदाग्रहादेवानिच्छुनापि सर्वथा श्रीकर्णेन सा परिणिन्ये । तदनन्तरं (टग्मात्रेण ) सर्वथा तामसंभावयन् कस्यां C BH __* अयं प्रबन्धः जिनमण्डनगणीयकुमारपालप्रबन्धे तथा चारित्रसुन्दरगणीयकुमारपालचरितेऽपि वर्तते। २ उद्यताय नृपतये स्मात्तैस्तप्तताम्रमयपुत्तलिकालिङ्गनमिति प्रायश्चित्ते c BH ३ प्रायश्चित्ताय aLP ४६,७ प्रबन्धौ जि. कु. प्रबन्धे चा. कु. चरितेऽपि ४ तद्व्यवहारविरुद्धं विमृशता नृपेण पृष्टैनैमित्तिकैस्तस्मिन्नेवाभ्युदयिके B HD Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy