SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २५६ प्रबन्धचिन्तामाणः सर्गः ४ लीः, अनुपमसरः, कपर्दियक्षमण्डपतोरणप्रभृतीनि बहूनि जिनधर्मस्थानानि रचयांचक्रे । तथा नन्दीश्वरकर्मस्थाये कण्टेलीयापाषाणसत्कजातीयषोडशस्तम्भेषु पर्वतात् जलमार्गेणानीयमानेषुसमुद्रकण्ठोपकण्ठे उत्तार्यमाणेषु, एककः स्तम्भः पङ्के मनस्तथा यथा निरीक्ष्यमाणोपि न लभते । तत्पदेपरपाषाणस्तम्भेन प्रासादः प्रमाणकोटिं नीतः। वर्षान्तरे वारिधिवेलावशात्यङ्कनिमग्नः स एव स्तम्भःप्रा. दुरासीत् । सचिवसमादेशात्तस्मिंस्तत्र संचार्यमाणे प्रासादो विदीर्ण इति निवेदितुमागताय परुषभाषकाय हैमी जिव्हां स मन्त्री ददौ। दक्षैः किमेतदिति पृष्ठेऽतः परं यथा कथंचिद्धर्मस्थानानि दृढानि कारयिष्यन्ते यथा युगान्तेपि तेषां नान्तो भवति अतः परितोषिकं दानं । आमूलात्तृतीयवेलायामयं प्रासादः समुद्धृतो विजयते । श्रीपालिताणके च पौषधशालां विशालां कारयामास । श्रीमदुजयन्ते च श्रीसंघेन सह प्राप्तो मन्त्री तत्र च तदुपत्यकायां जलपूरे कारितं नव्यं वप्रं, तथा तन्मध्ये श्रीमदाशराजविहारं, तथा कुमारदेवीसरश्च, निरुपमं वि१ पावकपर्वतात् C D२ उपत्यकान्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy