SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ सर्ग: ] टीका सहितम् ७९ तस्या गुणेषु लयं विश्रामं न लभन्ते । यत् यस्मात् कारणात् ते विबुधाः परमार्थदृष्टयो दीर्घदर्शिनो वर्तन्ते । कोऽर्थः ? न विद्यते च्युतं च्यवनं यत्र तत् अच्युतं नाकिधाम स्वर्गं गत- ३ स्तत्कथमत्रावतीर्णः, परमिन्द्रगोपवत् तन्नाममात्रमेवेति त्वं तत् त्यक्तवानिति भावः ॥ ६२ ॥ निरीक्ष्य तां तीर्थकृतः पितुः श्रियं, न चक्रिसम्पद्यपि तोषमीयुषा । तदर्थमेव प्रयतं ततस्त्वया, त्रपा हि तातोनतया सुसूनुषु ॥ ६३ ॥ निरीक्ष्य० ततस्ततोऽनन्तरं हे नाथ! त्वया तदर्थमेव तीर्थंकर श्रीनिमित्तमेव प्रयतं उपक्रान्तम् । किंविशिष्टेन त्वया ? तीर्थकृतः तीर्थंकरस्य पितुस्तां श्रियं लक्ष्मीं निरीक्ष्य दृष्ट्वा १२ चक्रिसम्पद्यपि चक्रवर्तिलक्ष्म्यामपि तोषं हर्षं न ईयुषा न प्राप्तवता । हि निश्चितं सुसूनुषु सत्पुत्रेषु तातोनतया तातात् हीनतया त्रपा लज्जा वर्तते । कोऽर्थः । वज्रसेनस्य तीर्थकरस्य १५ वज्रनाभः पुत्रश्चक्रीजातस्तेन च चक्रित्वं विहाय संयमं गृहीत्वा विंशतिस्थानकैस्तीर्थ करनाम उपार्जितम् । अतश्चक्रिलक्ष्म्यास्तीर्थकरलक्ष्मीरधिकेति भावः ॥ ६३ ॥ Jain Education International ६ ससीमसर्वार्थविमानवासिनः, शिवाश्रयाः सङ्गममिच्छतोऽपि ते । अभूद्विलम्बस्तदसंस्तुते जने, रिरंसया को न दधाति मन्दताम् ॥ ६४ ॥ ससीम० हे नाथ! ते तव ससीमासन्नसर्वार्थविमानवासिनः २३ For Private & Personal Use Only १८ २१ www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy