SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ७७ सर्गः] टीकया सहितम् महा० हे नाथ ! त्वं महाबलक्ष्मापभवे महाबलाख्यस्य राज्ञो भवे बोधैकबलात् बोधस्य प्रबोधस्यैकबलं बोधैकबलं तस्मात् निजाख्यं आत्मीयं नाम यथार्थकी चकर्थ सत्यार्थीकृतवान्! १३ किं कुर्वन् ? अखर्वाणि प्रौढानि चार्वाकवचांसि चूर्णयन् , (पुनः) किंविशिष्टानि (चार्वाक ) वांसि अक्षरकोटकुट्टने मोक्षदुर्गकुट्टने अयोधनान् लोहमुद्रान् ॥ ५८ ॥ द्वितीयकल्पे ललिताङ्गतां त्वया, गतेन वध्वा विरहे व्यलापि यत् । दरिद्रपुत्र्यै दयितुं तपःफलं, तदन्यदर्था हि सतां क्रियाखिला ॥ ५९॥ द्वितीय० हे नाथ ! त्वया द्वितीयकल्पे ईशानदेवलोके ललिताङ्गतां ललितं सविलासं अङ्गं यस्य स ललिताङ्गस्तस्य भावो १२ ललिताङ्गता ताम् , ललिताङ्गताख्यदेवत्वं वा । गतेन प्राप्तेन वध्वा विरहे यत् व्यलापि व्यलापः कृतः, तत् दरिद्रपुत्र्यै निर्नामिकायै तपःफलं दयितुं दातुं ज्ञेयम् । हि यस्मात् १५ कारणात् सतां साधूनां अखिला समस्ता क्रिया अन्यदर्था अन्येषामुपकारहेतुं वर्तते, अत्र षष्ठी 'तृतीयादन्याषष्ठ्यर्थे। ( ) इति व्याकरणसूत्रेण अन्यदर्थी इति स्यात् ।। ५९ ॥ १८ स वज्रजङ्घो नृपतिर्भवन् भवा नवाप हालाहलधूमपायिताम् । यदङ्गजादङ्गजतस्ततस्तवा धुनापि विश्वासबहिर्मुखं मनः ॥ ६०॥ २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy