SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ७४ जैनकुमारसंभवं [द्वितीयः अनङ्गरूपोऽप्यखिलाङ्गसुन्दरो, ___ रवेरदभ्रांशुभरोऽपि तारकः । ३ अपि क्षमाभृन्न सकूटतां वह- . स्थपारिजातोऽपि सुरद्रुमायसे ॥ ५३ ॥ अन० हे नाथ! त्वं अनङ्गरूपोऽपि अखि लाङ्गसुन्दरः, ६ सर्वाङ्गसुन्दरो वर्तसे, योऽनङ्गरूपः स्यात् सो अखिलाङ्गसुन्दरः कथं स्यात् ? अत्र विरोधपरिहारमाह अनङ्गरूपः कन्दर्परूपः, अखिलाङ्गसुन्दरश्च । हे नाथ ! त्वं रवेरदभ्रांशुभरोऽपि सूर्याद९धिकतेजःपटलोऽपि तारकोऽपि । यो रवेरदभ्रांशुभरः स्यात् स तारकः कथम् ? तारयतीति तारकः । त्वं क्षमाभृदपि पर्व तोऽपि सकूटतां सशिखरतां न वहसि । यः क्षमाभृत् स्यात् , स १२ सकूटतां किं न वहति ? क्षमां बिभर्तीति क्षमाभृत् । सकूटतां सालीकतां न वहसि । त्वं अपारिजातोऽपि सुरद्रुमायसे । योऽपारिजातः स्यात् स सुरद्रुमवत् कथमाचरति ? अपगतं अरिजातं १५ यस्य स अपारिजातः ॥ ५३ ॥ इदं हि षट्खण्डमवाप्य भारतं, भवन्तमूस्खलमेकदैवतम् । १८ बिभर्ति षट्कोणकयंत्रसूत्रणां, नृणां स्फुरत्पातकभूतनिग्रहे ॥ ५४॥ इदं हि० हे नाथ ! हि निश्चितं इदं षट्खण्डभारतं २१ भरतक्षेत्रं, कर्तृपदं । ऊर्जवलं बलवन्तं एकदैवतं भगवन्तं अवाप्य प्राप्य, नृणां मनुष्याणां स्फुरत्पातकभूतनिग्रहे, २३ प्रसरत्पापरूपभूतस्य निर्घाटने षट्कोणकयन्त्रसूत्रणां बिभर्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy