SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ सर्गः ] टीका सहितम् मरम् । विशारदैश्चतुरैरादराद्वन्दितपादं नमस्कृतचरणम् ॥४६॥ त्रिभिर्विशेषकम् ॥ कनीनिकादंभमधुव्रतस्पृशां, दृशां शतैर्बिभ्रदिवाम्बुजस्रजम् । ततस्त्रिलोकीपतिमेनमर्चितुं, रयादुपातिष्ठत निर्जरेश्वरः ॥ ४७ ॥ कनी ० ततस्ततोऽनन्तरं निर्जरेश्वर इन्द्र एनं त्रिलोकीपतिं श्रीयुगादीशं अर्चितुं पूजयितुं रयात् वेगात् उपातिष्ठत आगच्छत् । किंलक्षण इन्द्रः ? कनीनिकादंभमधुत्रतस्पृशां ९ तारामिषेण भ्रमरस्पृशां दृशां शतैरंबुजस्रजं कमलमालां बिश्रदिव धरन्निव । नयनानां कमलोपमा दीयते, अतः सहस्रलोचनत्वात् मूर्तिमती कमलमालां बिभ्राणो भगवन्तं पूजयितुमिव हरिः १२ समेत इति भावः ॥ ४७ ॥ शिरः स्वमिन्दिन्दिरयन् विनम्य तत्पदानयुग्मे लसदंगुलीदले । इति स्फुरद्भक्तिरसोर्मिनिर्मलं, शचीपतिः स्तोत्र वचः प्रचक्रमे ॥ ४८ ॥ शिरः० शचीपतिरिन्द्रः इति अमुना प्रकारेण स्फुरद्भक्ति- १८ रसोर्मिनिर्मलं प्रसरद्भक्तिरसकल्लोलैः निर्मलं स्तोत्रवचः प्रचक्रमे प्रारेभे । किं कुर्वन् इन्द्रः ? लसदंगुलीदले लसत् अङ्गुलिका1 रूपपत्रे तत्पदाब्जयुग्मे तस्य भगवतश्चरणकमले विनम्य नत्वा स्खशिरः आत्मीयमस्तकं इन्दिन्दिरयन् भ्रमरवत् कुर्वन् ॥४८॥ २२ Jain Education International १५ For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy