SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ सर्गः] टीकया सहितम् तेषां विंशतिः एतावता चतुर्विंशतिः, मम शिरो मस्तकमध्यास्य अध्याश्रित्य वतंसयिष्यति अवतंसयिष्यति अवतंससंयुक्तं मुकुटसंयुक्तं करिष्यति ॥ ३१ ॥ यदुच्चशृंगाग्रजुषोऽपि खेचरी गृहीतशिम्बाफलपुष्पपल्लवाः। न सेहिरे स्वानुपभोगदुर्यशो, द्रुमा मरुत्प्रेरितमौलिधूननैः ॥ ३२॥ यदुच्च० गुमाः वृक्षा मरुत्प्रेरितमौलिधूननैः पवनप्रेरितशिरःकम्पनच्छलेन खानुपभोगदुर्यशः आत्मीयस्य उपभोगरहितत्व-९ स्थापकीर्ति न सेहिरे न सोढवन्तः । किंलक्षणा द्रुमाः? यदुच्चशृङ्गाग्रजुषोऽपि यस्य पर्वतस्य उच्चशृंगाग्रे जुषन्ते सेवन्ते । एवंविधा अपि पुनः किंलक्षणा द्रुमाः? खेचरीगृहीतशिम्बाफल-१२ पुष्पपल्लवा विद्याधरीभिर्गृहीता शिम्बाफलिका फलपुष्पपल्लवानि च येषान्ते खेचरीगृहीतशिम्बाफलपुष्पपल्लवाः ॥ ३२ ॥ निवासभूमीमनवाप्य कन्दरे .१५ ___ष्वपि स्फुटस्फाटिकभितिभानुषु । . तले तमस्तिष्ठति यन्महीरुहां, शितिच्छविच्छायनिभानिशात्यये ॥ ३३ ॥ १८ निवास० तमः अन्धकारं निशात्यये प्रभाते यन्महीरुहां यस्य पर्वतस्य वृक्षाणां तले शितिच्छविच्छायनिभात् शितिः कृष्णा छविः कान्तिर्यस्याः सा शितिच्छविः, एवंविधा या छाया तस्या निभात् मिषात् तिष्ठति । किं कृत्वा ? कन्दरेष्वपि गुहाखपि २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy