SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ३४ जैनकुमारसंभवं [प्रथमः दोलारसाय श्रितकर्णपालिः आन्दोलनरसकृते श्रिता कर्णपालिर्यया सा दोलारसाय श्रितकर्णपालिः ॥ ५६ ॥ पद्मानि जित्वा विहिताऽस्य दृग्भ्यां, सदा खदासी ननु पनवासा । किमन्यथा सावसथानि याति, व तत्प्रेरिता प्रेमजुषामखेदम् ॥ ५७ ॥ पद्मानि० अस्य भगवतो हग्भ्यां पद्मवासा लक्ष्मीन्नु निश्चितं सदा सर्वदा खदासी विहिता, किं कृत्वा ! पद्मानि ९ जित्वा, किमन्यथा सा पद्मवासा तत्प्रेरिता ताभ्यां दृग्भ्यां प्रेरिता प्रेमजुषां प्रीतिमतां आवसथानि गृहाणि अखेदं खेदरहितं यथा भवति तथा याति, कोऽर्थः ? खामिग्भ्यां भक्तलोकानां १२ दारिद्यदौर्भाग्यादयो दोषा नश्यन्ति, पदे पदे संपदश्व - विजुभन्त इति भावः ॥ ५७ ॥ कृष्णाभ्ररेखाभ्रमतो निभाल्य, तव्युगं यौवनवह्नितप्तः। अकारि नृत्यं प्रमदोन्मदिष्णु ___ मनोमयूरैर्विलसत्कलापैः ॥ ५८ ॥ १४ कृष्णाम्र० प्रमदोन्मुदिष्णुमनोमयूरैः प्रमदानां स्त्रीणाम् ___ उन्मदिष्णूनि उन्मादसंयुक्तानि मनांस्येव मयूरा प्रमदोन्मुदि० । __ तैः प्र० मयूरैः । पक्षे प्रमदेन हर्षेण उन्मुदिष्णुमनसो ये मयूर २१ रास्ते प्रेम तैर्मयूरैः नृत्यं नाट्यं अकारि कृतं, किं कृत्वा तयुगं तस्य भगवतो भ्रूयुगलं कृष्णाम्ररेखाम्रमतो निभाल्य कृष्णा २३श्यामा या अप्ररेखा तस्या यो प्रमो विभ्रमस्तस्मात् । कृष्णा हग्वा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy