SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ३० जैनकुमारसंभवं [प्रथमः स्म, च अन्यत् , तस्य भगवतः अङ्गुलीः कामदुधास्तनानमंस्त, तस्य नखान् चिंतामणीनमंस्त ॥ १८ ॥ येन त्रिलोकीगतगायनौचं, जिगाय धीरध्वनिरस्य कण्ठः । क्रमेण तेनैव किमेष रेखा६ त्रयं कृतं साक्षिजनैर्बभार ॥४९॥ येन त्रिलोकी०-अस्य भगवतः कण्ठो येन क्रमेण त्रिलोकीगतगायनौघं, त्रिभुवनस्थानां गायनानां समूहं जिगाय इति ९ जितवान् , किंलक्षणः कण्ठः ? धीरध्वनिः धीरो गम्भीरो ध्वनिः शब्दो यस्य स धीरध्वनिः । एष कण्ठस्तेनैव क्रमेण किं रेखात्रयं बभार, किंविशिष्टं रेखात्रयम् ? साक्षिजनैः कृतम् , कोऽर्थः ? १२ त्रिभुवने तावता खामिकण्ठसदृग् धीरध्वनिर्नास्तीत्यर्थः ॥ १९॥ यजातिवैरं सरता तदास्या भोजन्मनाऽभंजि जगत्समक्षम् । १५ निशारुचिस्तत्किमपत्रपिष्णुः, सोऽयं दिवाभूद्विधुरप्रकाशः॥५०॥ . यज्जातिवैरं० यत् तदास्यांभोजन्मना तदीयमुखकमलेन १८ अयं विधुश्चन्द्रो जगत्समक्षं विश्वसाक्षिकं अभंजि जीयतेस इत्यर्थः, किं कुर्वता तदास्यांभोजन्मना ? जातिवैरं स्मरता, सोऽयं विधुश्चन्द्रः तत् तस्मात् कारणात् दिवा दिवसे किं अप्रकाशो अप्रकट एवाभूत् , किंलक्षणो विधुः ! अपत्रपिष्णुः २२ लज्जनशीलः, पुनः किं० ? निशायां रुचिः कान्तिः यस्य स Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy