SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ - जैनकुमारसंभवं [प्रथमः पुनः किं० १ निजराजचिरैः । अन्योऽपि यो महान्तं राजानं सेवते, स निजराजचिह्नानि पुरो ढौकयते ॥ ४० ॥ । अन्तः ससारेण मृदुत्वभाजा, पादाब्जयोरूर्वमवस्थितेन । विलोमताऽधायि तदीयजङ्घा नालद्वयेनालमनालमेतत् ॥४१॥ अन्तः ससारेण० तदीयजङ्घानालद्वयेन तस्यैव भगवतो जङ्घारूपनालद्विकेन, अलं अत्यर्थ विलोमता लोमरहितत्वं ९अन्यनालेभ्यो विसदृशत्वं वैपरीत्यं वा अधायि धार्यतेस्म, एतत् अनालं सम्यक्, किंलक्षणेन जङ्घानालद्वयेन ? अन्तः ससारेण मध्ये संभरेण, पुनः किं० ? मृदुत्वभाजा सौकुमार्य १२ सेवमानेन, पुनः किं० १ पादाब्जयोरूवं अवस्थितेन अतोऽन्यकमलनालेभ्योऽत्र वैपरीत्यमिति भावः ॥ ४१॥ धीराङ्गनाधैर्यभिदे पृषत्काः, पञ्चेषुवीरस्य परेऽपि सन्ति । तदूरुतूणीरयुगं विशाल वृत्तं विलोक्येति बुधैरतर्कि ॥ ४२ ॥ १८ धीरांगना० बुधैर्विद्वद्भिस्तदूरुतूणीरयुगं तस्य भगवता ऊरूरूपं - भस्वकयुग्मं विलोक्य इति अतर्कि विचारितम् , किं विशिष्टं ऊरुतूणीरयुगम् ? विशालवृत्तं विशालं च तत् वृत्तं च विशाल२० वृत्तम्, इति इति किम् ? धीरांगनाधैर्यभिदे शीले निश्चलचित्तानां स्त्रीणां धैर्यस्य भिदे भेदाय, पञ्चेषुवीरस्य उन्मदन १ मदन २३२ मोदन ३ तपन ४ शोषण ५ रूपा (पञ्च) इषवो बाणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy