SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ सर्गः] टीकया सहितम् काञ्चनरुग् सुवर्णवर्णकान्तिः, पुनः कीदृग् भगवान् ? घननीलचूलः, घनो मेघस्तद्वन्नीला कृष्णा, चूला शिखा, यस्य स घननीलचूलः । अर्थवशात् विभक्तिपरिणामः, सुमेरुः कीदृग् १३ काञ्चनरुक् काञ्चनमयः, पुनः कीदृग् ? घननीलचूलः घना दृढा नीलवर्णचूला चूलिका यस्य स, सप्तवर्षापगतः सप्तभिः वर्षेः क्षेत्ररुपगतः तद्यथा भरहं १ हेमवयं २ ति हरिवासं ३ तोह महाविदेहं ४ च । रम्मय ५ हेरण्णवयं ६ एरवयं ७ चेव वासाइं ॥ एतैः सप्तक्षेत्रर्युक्त इत्यर्थः ॥ ३५ ॥ पुरा परारोहपराभवस्या वश्याः कशाकष्टमदृष्टवन्तः। बबन्धिरेऽनेन बलात् कुरङ्गा इवोल्लसन्तः शिशुना तुरङ्गाः ॥ ३६॥ १२ पुरा परारोह० अनेन भगवता शिशुना बालेन सता तुरता अश्वा बलात् हठात् बबन्धिरे बध्यन्ते स्म, किंलक्षणा तुरङ्गाः ? पुरा पूर्व परारोहभवस्य अवश्याः अन्यच्चटनस्य पराभवस्य न १५ वश्याः । पुनः किं कृतवन्तः तुरङ्गाः ? कशाकष्टं अदृष्टवन्तः कशायाः तर्जनकस्य कष्टं कदापि न दृष्टं यैस्ते कशाकष्टमदृष्टवन्तः । पुनः किं कुर्वन्तः ? कुरङ्गा इव उल्लसन्तः हरिणा : इव ऊर्ध्वमुत्पतन्तः ॥ ३६॥ करे करेणुः स्वकरेण मत्तो, वने चरन् येन धृतो बलेन । रोषारुणं चक्षुरिहादधानो, गानं धुनानोऽपि न मोक्षमाप ॥ ३७॥ २१ २३ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy