SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ सर्गः] जैनकुमारसंभवं अन्तरालयकुलायशायिभि र्येन जागरितमण्डजैरपि ॥४४॥ तोष० तोषविस्मयभवः हर्षविस्मयादुत्पन्नः सखीमुखात् ३ स कश्चन कलकलः कोलाहल उद्ययौ उदयं प्राप, येन उदयेन अन्तरालयकुलायशायिभिः गृहमध्ये नीडशयनशीलैरंडजैरपि पक्षिभिर्जागरितं जागर्यते स्म ॥ ४४ ॥ स्वममेकमपि सालसेक्षणा, किं विचारयितुमीश्वरीदृशम् । उल्लसत्तमसि यन्मनोगृहे, सञ्चरन्त्यपि बिभेति भारती ॥४५॥ खन० सा अलसेक्षणा स्त्री ईदृशं स्वप्नं एकमपि विचारयितुं किं ईश्वरी समर्था वर्तते ? अपि तु नैव, यन्मनोगृहे भारती १२ सरखती संचरन्त्यपि बिभेति, किंविशिष्टे यन्मनोगृहे ? उल्लसत्तमसि अज्ञानरुपान्धकारे सान्धकारे वा ॥ ४५ ॥ वर्णयेम तव देवि कौशलं, यत्प्रकृत्यकृतिनीरुपेक्ष्य नः। देवदेववदनादनाकुलं, स्वमसूनृतफलं व्यबुध्यथाः ॥ ४६॥ वर्ण० हे देवि! वयं तव कौशलं वर्णयेम वर्णयामः यत् त्वं प्रकृत्यकृतिनीः खभावेन मूर्खान् नः अस्मान् उपेक्ष्य देवदेववदनात् श्रीऋषभमुखात् अनाकुलं यथा भवति तथा स्वामसूनृतफलं व्यबुध्यथाः ज्ञातवती ॥ १६ ॥ २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy