SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ सर्ग: ] टीका सहितम् १७ भगवान् पालन के माति यशो लोकत्रयेऽपि न माति, अत एव कार्यकारणयोः सादृश्ये मृषात्वमिति भावः ॥ २३ ॥ आशाम्बरः शान्तविकल्पवीचिमना विना लक्ष्यमचञ्चलाक्षः । बालोऽपि योगस्थितिभूरवश्यः स्वस्यायतौ यः कमनेन मेने ॥ २४ ॥ आशाम्बरः ० यो भगवान् कमनेन कन्दर्पेण आयतौ उत्तर- काले खस्य आत्मनः अवश्यो मेने मन्यते स्म । किंविशिष्टो भगवान्, बालोऽपि योगस्य स्थितेर्मर्यादायाः भूः स्थानं, पुनः ९ किंविशिष्टो भगवान् ? आशाम्बरः आशा दिश एव अम्बराणि वस्त्राणि यस्य सः पुनः किंविशिष्टो भगवान् ? शान्तविकल्पवीचिमना - उपशान्ता विकल्पानां वीचयः कल्लोला यत्र एवंविधं १२ मनो यस्य सः, पुनः किंविशिष्टो भगवान् ? लक्ष्ये विलोकनीयं वस्तु विनापि अचञ्चलाक्षो निश्चललोचनः, योगवानपि एवंविधः ः स्यात्, भगवानपि एवंविधः, अतः कमनस्य मनसि १५ भगवत्यजेयत्वशङ्का जातेति भावः ॥ २४ ॥ अस्तन्यपायीति विनिश्चितोऽपि कामुं पयोऽपीप्यदिति खमातुः । चिराय चेतश्चकितं चकार स्मितेन धौताधरपल्लवो यः ।। २५ ।। अस्तन्यपायी ० यो भगवान् अस्तन्यपायीति विनिश्चितोऽपि -स्तन्यं न पिबतीत्येवंशीलोऽस्तन्यपायी इति निर्णीतोऽपि खमातुरा • २२ जै० ० कु० २ Jain Education International ઢ For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy