SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ सर्गः] टीकया सहितम् विहाय त्यक्त्वा करोत्करः किरणसमूहः मुहुः २ वारं २ उभयतः द्वयोः पार्श्वयोः प्रणति प्रणामं विधाय कृत्वा शुचिं पवित्रं तदाननं तस्य खामिनो मुखं विधु चन्द्रं बभाज, ३ सेवते स्म । किंविशिष्टः करोत्करः ? प्रकीर्णकछद्मधरः प्रकीर्णकयोश्चामरयोश्छद्मधरतीति प्रकीर्णछद्मधरः ॥ ३८ ॥ विमुक्तवैरा मृदुतिग्मताजुषः, - सुराऽसुराः खोचितचिह्नभासुराः । प्रभुं परीयुः शशिभावतोरिवा____ शवो गोत्रमुदारनंदनम् ॥ ३९ ॥ विमु० सुरासुरा देवदानवाः प्रभुं खामिनं परीयुः परिवत्रुः । किंलक्षणाः सुरासुराः ? विमुक्तवैरा परस्परं प्रीतिभाजः । पुनः किंलक्षणाः सुरासुरा ? मृदुतिग्मताजुषः, मृदुता सौकुमार्य १२ तिग्मता तीव्रत्वं जुषन्ते सेवन्ते इति मृदुतिग्मताजुषः । पुनः किंलक्षणाः ? खोचितचिन्हमासुराः खस्य आत्मनः उचितानि योग्यानि चूडामणिफणिगरुडेवजेतहकलससीहअमेय इत्यादि १५ चिह्नानि लांछनानि तैर्देदीप्यमानाः । के इव? शशिभाखतोचन्द्रसूर्ययोः अंशवः किरणा इव । यथा शशिभाखतोः किरणा दिवो गोत्रं मेरुपर्वतं परियन्ति परिवृण्वन्ति । किंविशिष्टं प्रभु १८ मेरं च ? उदारनन्दनं उदारं नन्दनं समृद्धिकरं च, मेरुपक्षे . उदारं नंदनं वनं यस्य स तं, शशिभाखतोः करा अपि मृदुतिग्मताजुषो भवन्ति ॥ ३९ ॥ प्रभुः प्रतस्थेऽथ बुधे स्वधैर्यतः, समेधयन् रक्तिविरक्तिसंशयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy