SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ सर्गः ] टीका सहितम् तदा हदालोडनशाखिदोलनप्रियामुखालोकमुखो मखाशिनाम् । रसः प्रयाणस्य रसेन हस्तिनः, पदेन पादान्तरवलुप्यत ॥ ३ ॥ तदा तस्मिन्नवसरे मखाशिनां देवानां हृदालोडनं हृदावगाहनं शाखिनो वृक्षास्तेषु दोलनं प्रियामुखालोकश्च एतत्प्रमुखो ६ रसः प्रयाणस्य रसेन व्यलुप्यत लुप्तः । किंवत् ? पदान्तरवत् । यथा हस्तिनः पदेन द्विपदचतुः पदादीनां पादान्तरं लुप्यते 'सर्वे पदा हस्तिपदे प्रविष्टा' इति न्यायात् ॥ ३ ॥ विनिर्यतां स्वस्वदिवो दिवौकसां, स कोऽपि घोषः सुहृदादिहूतिभूः । अभूद्वहायस्यपि यत्र गोत्रजं, विमिश्रितं कः प्रविभोक्तुमीश्वरः || ४ || अमीषु नीरंध्रचरेषु कस्यचिनिरीक्ष्य युग्यं हरिमन्यवाहनम् । १२५ विनि० खखदिवो विनिर्यतां आत्मीय आत्मीय देव - लोकान्निर्गच्छतां दिवौकसां देवानां सुहृदादितिभूः सुहृदादीनां १५ मित्रादीनां हूतिराकारणा तद्भूः सुहृदादिहूतिभूः । स कोऽपि घोषः कलकलो गोकुलं वा अभूत् । यत्र घोषे गोत्रजं वाणिसमूहं धेनूसमूहं वा विमिश्रितं एकीभूतं सत् विहायस्यपि १८ आकाशेऽपि प्रविभक्तुं पृथक् कर्त्तुं क ईश्वरः समर्थः स्यादपि तु न कोऽपि ॥ ४ ॥ Jain Education International For Private & Personal Use Only १.२ २२ www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy