SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्रीभावप्रभरिकृतम् श्वेतपटैः पापण्डिमिः प्रतारितोऽसि इति वदन्ति स । तदा निर्दया एते इति तेन सागरदत्तेन त्यक्ताः । अनाप्तसम्यक्त्वात् मृला स चायं तव जात्यश्वोऽजायत । प्राग्जन्मकारितजिनप्रतिमाया: प्रभावात् पुनरेष मम संयोगं धर्मसंयोगं च प्रापत् । इति श्रुत्वा जातजातिस्मृतिः ततोऽश्वः खामिनः पार्थेऽनशनं कृत्वा 'सहस्रारे' सुरो जातः । अवधिना प्राग्जन्म विज्ञाय सोऽश्वदेवोऽत्रागत्य स्वर्णप्राकारस्थां मुनिसुव्रतप्रतिमां विदधाति स । अश्वावबोधाख्यं 'भृगुकच्छ'पुरमभूत् तदा अत्र सवैयो 'जंगमतित्थ तुरंगमसंगमरंगमहानिधिकारन जानी भाषे प्रयोजन योजनसाठि निशाये(स)में आये जो निरम(म?)लज्ञानी अच्छ मही भृगुकच्छ सुलच्छन पावन कीनी सुधाकिर वानी ताके नमो मुनिसुव्रतके पद संपदकारन तारन पानी ॥१॥ ॥ इति कथालेशः सम्पूर्णः॥ अथ पुनरत्र शुद्धदेवलक्षणशुद्धगुरुशुद्धधर्मदृढरागोपरि दृष्टान्तःपूर्व'मवन्त्यां'नगर्या शास्त्रप्रिय इति नाम्ना विप्रो धनाढ्यो वसति । तस्य प्रिया गुणवती वर्तते । परं स च कीदृशः? समस्तवेदपारगामी, शब्दशास्त्रनिपुणमतिः, तत्कालकाव्यकरणात्यन्तरतिः, घटसरस्वतीवत् संस्कृतजल्पनशक्तिः, छन्दोऽलङ्कारादिसकलशास्त्रदृढधृतिः, मिथ्यात्ववासितमतिरस्ति । तत्प्रियाऽपि शब्दशास्त्रादिसंस्कृतजल्पनादौ विदुषी वर्तते । एकदा शास्त्रप्रियः काश्चिद् रमणीं गच्छन्तीं दृष्ट्वा पाह "वक्र पूर्णशशी सुधाऽधरलता दन्ता मणिश्रेणयः कान्तिः श्रीर्गमनं गजः परिमलस्ते पारिजातद्रुमाः। वाणी कामदुधा कटाक्षलहरी सा कालकूटच्छटा तत् किं चन्द्रमुखि! त्वदर्थममरैरामन्थि दुग्धोदधिः? "जन्मस्थानं न खलु विमलं वर्णनीयो न वर्णों दूरे शोभा वपुषि निहिता पङ्कशङ्कां तनोति । विश्वप्राथ्येः सकलसुरभिद्रव्यदपोपहारी नो जानीमः परिमलगुणः कस्तु कस्तूरिकायाः॥२"-मन्दाक्रान्ता १ तात्पर्यम् जगमतीर्थ तुरङ्गमसङ्गमरङ्गमहानिधिकारणं ज्ञात्वा भाषते प्रयोजनं योजनषष्टिं निशासमय आगतो यो निर्मलज्ञानी। अच्छा मही भृगुकच्छस्य सुलक्षणेन पवित्रीकृता सुधाकीर्वाण्या तस्य नमत मुनिसुनतस्य पादौ सम्पदकारणं तारणं प्राणिनः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy