SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ श्रीजैनधर्मवरस्तोत्रम् वीरस्य केवलोत्पत्तौ चन्दनाया दीक्षा, मृगावतीक्षामणावसरे केवलं क्रमेण (सा) मुक्ति मतेति सम्पूर्णः प्रबन्धः ॥ सूत्रम् — अष्टमवृत्तस्य सम्पूर्णोऽर्थः ॥ ८ ॥ * 汕 解 竑 मुक्ताः दारिद्र (घ) दोषतिमिरैर्नियमेन सत्पात्रदान सुदिनोदयसङ्गमाद्याः । पृष्ठानुगामिकटके निकटे सटङ्के चौरैरिवाशु पशवः प्रपलायमानैः ॥ ९ ॥ व्याख्या - सत्पात्रदानेन - साधवे दत्तदानेन सुदिनस्य- सुकृतदिवसस्य उदयो येषां ते एवंविधाश्च ते सङ्गमाद्याश्चेति 'कर्मधारयः' । शालिभद्र पूर्वभव सङ्गमगोपालकप्रभृतयो जीवा दारिद्र (य) दोष तिमिरैर्नियमेन मुक्ताः - त्यक्ताः । कैरिव १ चौरैरिव । यथा चौरैराशु शीघ्रं पशवः - गवादयो मुक्ताः । कस्मिन् सति ? पृष्ठानुगामिकटके - पृष्ठे शीघ्रगतिगामिनि सैन्ये निकटे - समीपे सति । कथंभूते कटके? सटङ्के-सकोपे । कथंभूतैः चौरैः ? प्रपलायमानैः - काकनाशं नष्टैः । "टङ्को नीलकपित्थेऽसि - कोशे कोपेऽइमदारणे । मानान्तरे खनित्रे च जङ्घायां टङ्कणेऽपि च ॥ १ ॥ " - अनु० इति है मानेकार्थः ( ० २४) ॥ अत्र सम्बन्धो लेशतः - 'छम्माणि' नामग्रामे गोपालनामा एको गोकुलिकः । तस्य स्त्री रमणकी । तयोः पुत्रः मरुकनामा । सिंहेन मारितो गोपालको मृत्वा 'राजगृहे' गोधननामा गोपो जातः । तस्य भार्या नर्मदा । तस्याः कुक्षौ पूर्वभवसम्बन्धी पुत्रो जातः । तस्य सङ्गमक इति नाम । इति जनकसुतयोर्द्वतीयो भवः ॥ Jain Education International गोaristaलोकानां महिष्यश्चारयति । एकदा सन्ध्यायां पश्चाद् वलमानः 'स्वर्ण वालुका'नदीतीरे एकं मुनीश्वरं ददर्श । गृहे समागतस्यापि तस्यैव हृदि ध्यानं स्थितम् । अतिप्रभातेऽग्निसम्बलमादाय तटिनीतटे समागतः । तं शीतार्तं दृष्ट्वा अत्यन्तकरुणार्द्रचित्तः शुष्ककाष्ठसञ्चयेनामिं प्रज्वाल्य साधोः शीतं व्यपोहयत् । साधुः प्रतिमाप्रतिपन्नः कायोत्सर्गं नापारयत् । साधुवैयावृत्यपुण्यानुमोदनात् प्राप्तोच्चगोत्र एकदा सिंहेन मारितः । मुनेर्थ्यामवशात् मृत्वा 'राजगृहे' गोभद्रनामा श्रेष्ठी बभूव । सङ्गमस्तु कियति काले सुसाधवे सबहुमानं पायसदानं दत्त्वा मृत्वा गोभद्रभद्रयोः पुत्रः शालिभद्रनामा जातः । इति जनकपुत्रयोस्तृतीयभवः । For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy