SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ सूत्रम् श्रीभावप्रभसूरिकृतम् " आख्याहि भद्रे ! प्रियदर्शनस्य न गङ्गदत्तः पुनरेति कूपम् । बुभुक्षितः किं न करोति पापं ? क्षीणा नरा निष्करुणा भवन्ति ॥ १ ॥ " - उपजातिः इति । स्वचिन्तितं कथयित्वा हे सारिके ! त्वयाऽपि तस्य विश्वासो न कर्तव्य इत्याख्यानकेन । एवं राजन् ! क्षुधार्तोsहं कृत्याकृत्यं न वेद्मि, आहारं विना मम प्राणा व्रजन्ति । नृपेणोक्तम्अन्यमाहारं ददामि । तेनोक्तम् - आमिषं विना मे न तृप्तिः । (नृपेणोक्तम् ) सूनास्थानात् तद्यानाय्य दास्यामि । (पक्षिणोक्तम् ) नैवं गृह्णामि चेत् मम पश्यतः प्राणिनो मांसं छित्त्वा दीयते, तदा मे तृप्तिः । राज्ञोक्तम्- यत्प्रमाणोऽयं पक्षी तुलाधृतो भवेत्, तावन्मात्रं निजं मांसं यच्छामि, कात्र विचारणा ? । निजमांसं छित्त्वा यथा यथा तुलायां चिक्षेप तथा तथा पारापasard बभूव । तदा तुलायां स्वयं नृप आरुरोह । हाहाकारो जातः । तत्सवं वीक्ष्य देवः प्रत्यक्षो जातः, धन्यस्त्वं महीपते ! ईशानेन्द्रवचसा श्रद्दधानस्तव परीक्षार्थं समागतः पूर्व मत्सfruit at मयाऽष्टौ इति उक्त्वा गतः स्वस्थानं सुरः ॥ इति कथानकं मेघरथनृपस्य समाप्तम् । इति चतुर्थवृत्तस्यार्थः सम्पूर्णः ॥ ४ ॥ Jain Education International जीव 竑 冲 300 संरक्षितो गजभवे शशको हि येन मेघाभिधेन मगधाधिपदेहजेन । माहात्म्यमानमिह तस्य करोतु को वा विस्तीर्णतां कथयति स्वधियाऽम्बुराशेः ? ॥ ५ ॥ ३५ व्याख्या - संरक्षित इति । हि निश्रितं येन मेघाभिधेन - मेघकुमारेण अस्मात् तृतीयगजभवे शशकः संरक्षितः - दयापरिणामत्वेन पालितः । किंविशिष्टेन मेघामिधेन ? मगधाधिपदेहजेन - मगधदेशस्वामिश्रेणिकपुत्रेण । इह लोके कः पुरुषः तस्य मेघकुमारस्य माहात्म्यमानंहां करोतु ? अपि तु न कोऽपि । वा इति पक्षान्तरे । को नरः अम्बुराशेः - समुद्रस्य विस्तीर्णतां कथयति स्वधिया ? अपि तु न कोऽपि । यदि कथयति, तदा सर्वज्ञवचसा । यतो १ मांसम् । For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy