SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ श्रीभावप्रमसरिकृतम् "धिगस्तु तृष्णातरलं भवन्मनः समीक्ष्य पक्षान् मम हेमजन्मनः। तवार्णवस्येव तुषारशीकरै भवेदमीभिः कमलोदयः कियान् ? ॥१॥"-वंशस्थविलम् पदे पदे सन्ति भटा रणोद्भटा न तेषु हिंसारस एष पूर्यते ॥ धिगीदृशं ते नृपते ! कुविक्रम कृपाश्रये यः कृपणे पतत्रिणि ॥२॥-वंशस्थ० फलेन मूलेन च वारिभूरुहां मुनेरिवेत्थं मम यस्य वृत्तयः । बयाऽद्य तस्मिन्नपि "देहधारिणा कथं न पत्या धरणी हणीयते ॥३॥"-वंशस्थ० अथात्रैव (स० २, श्लो० ९-१०) विरोधमाह "मृगया न विगीयते नृपै रपि धर्मागममर्मपारगैः । सरसुन्दर! मा यदत्यज स्तव धर्मः सँदयोदयोज्वलः॥१॥-वैतालीयम् अबलखकुलाशिनो झेषान् निजनीडद्रुमपीडिनः खगान् । अनवधरणार्दिनो मृगान् मृगयाऽघाय न भूभृतां नताम् ॥ २॥"-वैता० ॥ इति तृतीयवृत्तार्थः सम्पूर्णः॥३॥ १ भमीभिः पक्षः, पक्षे तुषारशीकरैः। २ कमलाया-लल्या उदयः, पक्षे कमलस्य-जलस्य उदयः । ३ वंशस्थविल-लक्षणम् "वदन्ति वंशस्थविलं जतौ जरी।" 'दण्डधारिणा' इति ख-पाठः। ५ लज्यते । ६ अवगण्यते। ७ दयाया उदयेन-उत्पत्या उजवल:शोभमानः। वैतालीय-लक्षणम् "घड विषमेऽष्टौ समे कलास्ताश्च समे स्युर्नो निरन्तराः। न समाऽत्र परश्रिताः कला वैतालीयेऽन्ते रलौ गुरुः ॥ १॥" अन्न सुन्दरीच्छन्द इत्यपि वक्तुं शक्यते, यतः "अयुजोर्यदि सौ जगो युजोः सभरा लगौ यदि सुन्दरी तदा।" ९मीनान् । जैन. स्तो०५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy