SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ श्रीभावप्रभसूरिकृतम् इति मनसि न माति यः स एष सृजतु मुदं चुलुको युगादिभर्तुः॥४॥-पुष्पिताग्रा (औपच्छन्दसिकेत्यपरनानी) कारणं जगति सर्वसम्पदा हारणं च विपदां गरीयसाम् । अष्टकर्मकरिणां विदारणं पारणं हरतु तद् दुरितं वः ॥५॥"-रथोद्धता अथ शीलमाह "हेरति कुलकलङ्कं लुम्पते पापपy सुकृतमुपचिनोति श्लाध्यतामातनोति । नमयति सुरवर्गा(ग) हन्ति दुर्गोपसर्ग रचयति शुभशीलं स्वर्गमोक्षौ सुलीलम् ॥ १॥-मालिनी तोयत्यग्निरपि सजत्यहिरपि व्याघ्रोऽपि सारङ्गति व्यालोऽप्यश्चति पर्वतोऽप्युपलति क्ष्वेडोऽपि पीयूषति । विनोऽप्युत्सवति प्रियत्यरिरपि क्रीडातडागत्यपांनाथोऽपि स्वगृहत्यटव्यपि नृणां शीलप्रभावाद् ध्रुवम् ॥२॥"-शार्दूल. -(सिन्दूर० श्लो० ४०) अथ तप आह "यसाद् विघ्नपरम्परा विघटते दास्यं सुराः कुर्वते कामः शाम्यति दाम्यतीन्द्रियगणः कल्याणमुत्सर्पति । उन्मीलन्ति महर्द्धयः कलयति ध्वंसं चयः कर्मणां खाधीनं त्रिदिवं शिवं च भजते श्लाघ्यं तपस्तन्न किम् ? ॥१॥-शार्दूल. -(सिन्दूर० श्लो० ८२) १ पुष्पिताग्रा-लक्षणम् "अयुजि नयुगरेफतो यकारो युजि तु नजौ जरगाश्च पुष्पिताया।" २ श्रीसोमप्रभसूरिकृते सिन्दूरप्रकरे (श्लो० ३९) इदं पद्यमुपलभ्यते, परन्तु तत्र तृतीयचतुर्थचरणौ तु यथा "नमयति सुरवगै हन्ति दुर्गोपसर्ग रचयति शुचि शीलं स्वर्गमोक्षौ सलीलम् ।" ३ 'सुरवर्गा' इति क-ख-पाठः। ४ 'दुर्गोपसर्गा' इति क-पाठः । ५ मालिनी-लक्षणम् " ननमयययुतेयं मालिनी भोगिलोकैः ।" समूहः। जेन० स्तो०३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy