SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्रीभावप्रभसरिकृतम् "अस्य क्षोणिपतेः परार्धपरया लक्षाधिका संख्यया प्रज्ञाचक्षुरवेक्ष्यमाणतिमिरप्रख्याः किलाकीर्तयः। गीयन्ते स्वरमष्टमं कलयता जातेन वन्ध्योदरान् __ मूकानां प्रकरण कूर्मरमणीदुग्धोदधे ! रोधसि ॥१॥"-शार्दूल. इत्यादि सर्वं वामात्रमेव । तथा जैनधर्म विना सर्वमपि वस्तु शून्यम् । अतो जैनधर्मे नित्यमादरः कर्तव्यः । पुनः पापोदयाजनस्तं नाभिलपति । यतः "तीर्णे सङ्कीर्णजीर्णे दिशि दिशि विलुलत्कोकिलाबद्धजाले गेहे दुरूपकान्तारटनविनटितः कन्यकाभारभन्नः। नानाधिव्याधिविद्धः कदशनशयनैः कष्टचेष्टानुजीवी क्रीडापात्रं जनानां तदपि हि सततं मोदते पापसक्तः ॥१॥"-स्रग्० एवं विधोऽपि मोहात् पापकुटुम्बं पोषयति । परं दुःखोदये न कोऽपि रक्षति तम् । दृष्टान्तमाह "पीपेण सुराः श्रिया मुररिपुर्मर्यादया मेदिनी स्वर्गः कल्परुहा शशाङ्ककलया श्रीशङ्करस्तोषितः । मैनाकादिनगा नंगारिभयतो यत्नेन संरक्षिता मच्चूलूकरणे घटोद्भवमुनिः केनापि नो वारितः॥१॥"-शार्दूल० अतो धर्मतः सुखं भवति । यतः "सुकुलजन्म विभूतिरनेकधा प्रियसमागमसौख्यपरम्परा । नृपकुले गुरुता विमलं यशो भवति धर्मतरोः फलमीदृशम् ॥ १ ॥-द्रुतविलम्बितम् सविनयास्तनया दयिता हिता नयभवा विभवोऽनुगुणा गुणाः । वपुरनाधि समाधिरतिनृणां । शुभतरोः प्रथमेऽङ्गुरका इमे ॥२॥"-द्रुत० १ इदं पद्यं सुभाषितरत्नभाण्डागारेऽपि दृश्यते, किन्तु तत्र प्रथमचरणद्वये पाठान्तरं तु यथा"अस्य क्षोणिपतेः परार्धपरया लक्षीकृताः संख्यया प्रज्ञाचक्षुरवेक्ष्यमाणबधिराव्याः किलाकीर्तयः" २ 'वदुर०' इति क-पाठः। ३ तृणनिर्मिते. ४ इदं पदं सुभाषितरत्नभाण्डागारेऽप्युपलभ्यते, परन्तु तत्र तृतीयतुरीयचरणी तु यथा मैनाकाहिनगा निजोदरगताः संस्थानतः स्थापितास्स्वञ्चलीकरणे घटो.' लाकीर्तयः” ५ इन्द्रभयात. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy