SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ १०४ श्रीजैनधर्मवरस्तोत्रम् लितः, तस्य देशनां निशम्य प्रतिबुद्धः एको दीक्षां गृहीतवान्, इतरो न । तदा लोकैः प्रोक्तम्-कथं भगवन् ! एकमनस्कौ इमौ धर्मकार्येऽधुना भिन्नमनसौ जातौ ? । सर्वज्ञः प्राह - श्रूयतामेतयोः पूर्वभवम् - कस्याश्चिदटव्यां द्वौ किरातौ वसतः स्म । कदाचिद् कुतश्चित् गोधनमपहृत्य पृष्टलग्नावाहरकभयान्नष्टौ तौ प्रौढगिरिशिखरं गतौ । तत्रैको मुनिर्नासाग्रभागन्यस्तनेत्रयुग्मो ध्यानमग्नो योगसुखलनो दृष्टस्ताभ्याम् । तं दृष्ट्वा एकेन संस्तुतः - अहो ! अयं निर्भयो मुनिः सुखासीनो वर्तते । तदा स एको दर्शनरुचिर्जातः । अन्यस्य काष्ठवत् साधुं समीक्ष्य न श्रद्धा जाता । कालान्तरे तौ मृत्वा निगमाविमौ जातौ स्तः । तेन दर्शनरुचिर्निस्तीर्णः, इतरस्तु नेति कथानकम् । इति त्रयस्त्रिंशत्तमवृत्तार्थः ॥ ३३ ॥ अथ सङ्घमाश्रित्याह सूत्रम् - ! 30 ड सङ्घाधिपत्यतिलकं ननु ये वहन्तः साधर्मिके सततदत्तवराशना ये । व्याख्या - (सङ्घति ) । हे विभो ! ननु निश्चितं ये जन्मभाजो धनाढ्याः सङ्घाधिपत्यतिलकं वहन्तो - दधतो भवन्ति । ये पुनः साधर्मिके सततदत्तवराशना-सदा दत्तभोजनवात्सल्या भवन्ति भुवि - भूमौ ते जन्मभाजः - भव्या लघु- शीघ्रं मुक्तिं व्रजन्ति । कथंभूताः ते १ किं कुर्वन्तः सन्तः ! हे विभो ! तव पादद्वयं नितरां भृशं भजन्तः । यतः - १ " अद्य मे फलवती पितुराशा, मातुराशिषि शिंखाङ्कुरिता यद् । यद्युगादिजिनयात्रिकलोकं, प्रीणयाम्यहमशेषमखिन्नः ॥ १ ॥ - स्वागता संसारेsसुमतां नरामरभवाः प्राप्ताः श्रियोऽनेकशः कीर्तिः स्फूर्तिमदर्जितं च शतशः साम्राज्यमप्यूर्जितम् । Jain Education International 矮 मुक्तिं व्रजन्ति लघु ते नितरां भजन्तः पादद्वयं तव विभो ! भुवि जन्मभाजः ॥ ३४ ॥ १ 'शिवा' इति क-पाठः । २ स्वागता-लक्षणम् - स्वाराज्यं बहुधा सुधाशनचयाराध्यं समासादितं लेभे पुण्यमयं कदाचिदपि नः सङ्घाधिपत्यं पुनः ॥ २ ॥ - शार्दूल० "स्वागता रनभगैर्गुरुणा चा" ३ स्वर्गराज्यम् । ४ 'कदापि न पुन:' इति ख- पाठः । For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy