SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ श्रीजैनधर्मवरस्तोत्रम् इत्युदित्वा सा वीरेण सह परिणायिता । दिनान्तरे कृष्णेनोक्तम्-आज्ञाकारिणीं तां कुरु । तेन गृहं गत्वा प्रोक्ता सा-पजेनीकं(?) कुरु । रुष्टा समेत्य कृष्णाय निवेदितम्-स्वामिनी कुरु । वीरादेशं लात्वा नेम्यन्तिके दीक्षापितेति । अन्यदाऽष्टादशसहस्रसाधूनां द्वादशावर्तवन्दनेन क्षायिकसम्यक्त्वं तीर्थङ्करनामगोत्रकर्म (च) बद्धं कृष्णेन खण्डितं नरकचतुष्ककर्मदलवितानम् । यतः "अनाद्यनन्तसंसार-कर्मधर्मश्रमापहम् । वन्दनं चन्दनमिव, श्रेयःसौरभसङ्कुलम् ॥१॥-अनु० ददद् हरिर्वन्दनकानि भक्त्या, मुनीश्वराणां चरणाम्बुजेषु । अवाप तीर्थङ्करगोत्रकर्म, श्वभ्रादिकष्टानि तनूचकार ॥२॥-उप० 'तित्थयरत्तं संमत्त खाइयं सत्तमीय तइआए । एयं वंदणएणं बद्धं च दसारसीहेण ॥३॥ वन्दनं हृदयभावसम्भवं, माधवस्य विदधे फलत्रयम् । द्रव्यतः कृतमिदं तु केवलं, वीरकस्स विपुलक्लमं फलम् ॥ ४ ॥-रथोद्धता पापतापनिचयस्य चन्दनं, दीयतां मुनिजनस्य वन्दनम् । पूर्वसञ्चितकुकर्मखण्डनं, वीरशासनजनौघमण्डनम् ॥५॥" विनयोऽहङ्कतित्यागो, जिनाज्ञा गुरुपूजनम् । श्रुतस्याराधना मोक्षः, पड़ गुणा गुरुवन्दने ॥ ६॥-अनु० नीचैर्गोत्रमविनयो-ऽमानः शासनहीलनम् । अबोधिर्भवद्धिश्च, षड् दोषा गुर्ववन्दने ॥७॥-अनु० एकादशस्तीर्थङ्करो भावीति इत्यादि । इति एकत्रिंशत्तमवृत्तार्थः ॥ ३१॥ सूत्रम् सैनेय-साधु-वरसङ्घक-सार्वसद्म सैद्धान्तिका इति सुपञ्चसकारवर्गः । येनाहतो भवकृपीटनिधौ निरस्तं तेनैव तस्य जिन! दुस्तरवारि कृत्यम् ॥ ३२॥ व्याख्या सैनेयेति । हे जिन ! येन प्राणिना इति-एष सुपञ्चसकारवर्गः आदृता-अङ्गीकृतः, सेवित इत्यर्थः । सु-शोभमानः पश्चानां सकाराणां वर्ग इति तानाह–'सैनेय' सेनाया अपत्यं १ छाया तीर्थकरत्वं सम्यक्त्वं क्षायिकं सप्तम्याः तृतीयायाम् । एतद् वन्दनकेन बद्धं च दशाईसिंहेन ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy