SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ सूत्रम् - श्रीभावप्रभसूरिकृतम् जैनो यती जिनजनो जिनसझ जैन ज्ञानं जिनो जगति पञ्च शुभा जकाराः । नाभेयभूर्भणति तेष्वनधे सदा किं त्वत्सङ्गमे सुमनसो न रमन्त एव ? ॥ २८ ॥ व्याख्या - ( जैनो यतीति ) जगति - लोके पञ्च शुभाः - श्रेयस्करा जकारा वर्तन्ते । तानाह'जैनो यती' जिनो देवता अस्येति जैनः जिनसम्बन्धी साधुः, जिनजनः - सम्यग्दृष्टिः, जिनसद्मजिनमन्दिरं, जैनं ज्ञानं - जिनभाषित आगमः, जिनः - अर्हन् देवः इति । नामेयभूः - श्री भरतः चकी भगति - वक्ति - हे जिन ! सदा सुमनसः - पण्डिताः तेषु पश्चजकारेषु किं न रमन्ते एव ? अपि तु रमन्ते एव । कस्मिन् सति । त्वत्सङ्गमे सति । कथंभूते त्वत्सङ्गमे ! अनघे - पापरहिते प्रशस्ये । यतः 'केशिकुमारसाधुना प्रदेशीराजा प्रतिबोधितः १ । श्रीमहावीरेणापि अम्बडाय प्रोक्तम्-त्वया सुलसा मदर्थं सम्भाषणीया विलोकनीया च । तेन हरिप्रमुखं रूपं दर्शयताऽपि सान चलितेति २। यत्र स्थाने जिनालयः तत्र साधुनाऽपि चातुर्मासकं स्थेयम् ३ । पुष्पचूलाराज्ञी नरकावासं स्वर्ग च स्वमे ददर्श । पाषण्डिभिस्तत्स्वरूपं प्रोक्तं न घटितं श्रीअन्निकासुताचायैस्तत् प्रोक्तं तु तथैव मिलितमिति सा प्रतिबुद्धा आर्या जातेति प्रसिद्धम् ४ । अष्टादशदोषरहितो रागद्वेषमुक्तो जिनोऽर्हन्नेव देवः । अत्र सवैया इकतीसा - छुटे अन्तराय पञ्च रंचही न राग रोस हास छक्क काम कीनो अंचहीन देषीयै वंचना अज्ञानकी मिथ्यातको प्रपञ्च निद्द आश्रवको संचसो तो मूलथै विलेषीये । एसे जो अदार दोष घातीकर्मभाव पोष ताको परिशोष याके ज्ञानमै विशेषी सोइ शुद्ध नामकोष घोषतें अनंत तोष मोषमग्गदाता त्राता देवदेव लेखीये ॥ १॥ - ( श्रीयशोविजय गणिगुम्फिते दिक्पट ८४ बोलेतिसंज्ञके ग्रन्थे १८ ) इत्यष्टाविंशतितमवृत्तस्यार्थः ॥ २८ ॥ 竑 ॐ १ जैनो यतीत्यादीनां क्रमेण उदाहरणानि । २ तात्पर्यम् - ॐ 竑 विनाशोऽन्तरायपञ्चकस्य तिलमात्रमपि रागरोषयोरस्तित्वं न हासादिषट्कस्य कामस्य च क्षयः अज्ञानस्य वचनायाः, मिथ्यात्वस्य प्रपञ्चस्य, निद्रायाः आश्रवसञ्चयस्य च मूलतो विलेखनम् । एते येऽष्टादश दोषा घातिकर्मभावपोषकास्तेषां परिशोषो यस्य ज्ञाने विशेषतः स एव शब्दनामकोषः तस्य घोषात् अनन्तस्तोषः, स मोक्षमार्गदाता त्राता देवदेवो गण्यते । Jain Education International ९१ ३ सन्तुल्यतां यदुक्तं श्रीहेमचन्द्राचार्यैः अभिधानचिन्तामणी (का० १, श्लो०७२-७३) - "अन्तराया दान - लाभ - वीर्य-भोगोपभोगगाः । हासो रत्यरती भीतिर्जुगुप्सा शोक एव च ॥ १ ॥ काम मिथ्यात्वमज्ञानं निद्रा चाविरतिस्तथा । रागो द्वेषश्च नो दोषास्तेषामष्टादशाध्यमी ॥ २ ॥” ४ मुद्रितोऽयं ग्रन्थः प्रकरणरत्नाकरे ( भा० १ ) । For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy