SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ श्रीजैनधर्मवरस्तोत्रम् - इति शत्रुनयमाहात्म्ये । 'एतच्छपञ्चकजुषः एतेषां शकाराणां पञ्चकं जुपते इति एतच्छपश्वकं श्रितस्य नरस्य या भा-कान्तिः आभा शोभा वा अस्ति । यत्तदोः सम्बन्धात् कः-वह्निः सूर्यो वा तां भां न व्रजति-न प्रामोति । कथंभूतः कः ? सचेतनोऽपि-चेतनायुक्तोऽपि “चित्तं चेयण सन्ना" इत्यादि वचनात् । “को ब्रह्मण्यात्मनि रवौ मयूरेऽग्नौ यमेऽनिले" इत्यनेकार्थ: (का० १, श्लो०५)। अथवा सचेतनोऽपि-चेतनायुक्तो नरोऽपि तां न व्रजति इति परमताक्षेपः । तथाहि "चेतनां नर्तकी कृत्वा, नृत्यं संसृतिसम्भवम् । भावागमेन संवीक्ष्य, योगी प्रामोति सम्पदम् ॥ १॥" इति ज्ञानाङ्कुशे । “सद्ध्यानज्ञानसंलीनचेतना । सा हि चेतना" इति पातञ्जल:(?) । इति । "अमात्याः १ स्वामिनः २ सिद्धा ३, योगसिद्धाश्च ४ चेतनाः ५। रसज्ञाः ६ कामुका ७ मेघा ८, नर्तका ९ योगिनो नव ॥१॥" इत्यादि परमतम् ॥ अथात्र दृष्टान्तःकश्चित् कौलधर्मा पुरुषो मद्यमांसासक्तः परस्त्रीरक्तः । यतः "रेण्डा चण्डादीक्षिता धर्मदारा, मांसं मयं भुज्यते पीयते च । भिक्षाभोज्यं चर्मखण्डं च शय्या, कौलो धर्मः कस्य नो भाति रम्यः १ ॥१॥"-शालिनी एवं कुर्वतस्तस्य पुरुषस्य स्पर्शन-रसन-प्राण-नेत्र-श्रोत्रेषु विषमरोगा जाताः । दवदग्धपादप इव जातः सः । ततो जैनसाधुर्मिलितः । तेन तसै रोगकारणं पृष्टम् । साधुनोक्तम्-(जैन)धर्मोद्भवं व्रतं गृहाण, शत्रुञ्जयादि शकारपश्चकमाराधय । समाधिर्भविष्यति । ततस्तेन रोगपराभवतो व्रतं गृहीतम् । शत्रुञ्जयक्षेत्रं श्रयति स्म । यमिनां वैयावृत्यं चकार । शमतां दधौ । शान्तिजिनं स्तौति स्म । शत्रुञ्जयषष्ठतपो वहति स च सः । एवं कुर्वाणः सम्प्राप्तसकललब्धिः निर्गतसमस्तरोगः निजतेजसा पराभूतवह्निसूर्यः सुवर्णवर्णसञ्जातकायः निर्मायः प्रान्ते मासानशनं कृत्वा प्राप्तकेवलज्ञानः सिद्धः । इति चतुर्विंशतितमवृत्तार्थः ॥ २४ ॥ १छाया चित्तं चेतना संज्ञा। २ दृश्यते पद्यमिदं श्रीजयशेखरसूरिकृते प्रबोधचिन्तामणौ (म० ४, श्लो० १०३)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy