SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्रीभावप्रभसरिकृतम् નહિ પલક ન પુણ્ય ન પાપ, સુખ પામ્યું તે વિલસો આપ वृ४५४नी परि 'सय ५४, पटी त५४५नी मति य१४ (?). '५ "भवाभिनन्दिनां सा च, भवशर्मोत्कटेच्छया ।। श्रूयन्ते चैतदालापा, लोकशास्त्रेऽप्यसुन्दराः॥१॥"-अनु० सा इति मोक्षेऽनिष्टप्रतिपत्तिः। "मदिराक्षी न यत्रास्ति, तारुण्यमदविह्वला । जडस्तं मोक्षमाचष्टे, प्रयास इति नो मतम् ॥२॥-अनु० वरं वृन्दावने रम्ये, क्रोष्ट्रत्वमभिवाञ्छितम् । न त्वेवाविषयो मोक्षः, कदाचिदपि गौतम ! ॥३॥"-अनु० गालवस्य शिष्यामत्रणमिति द्वात्रिंशिकायां (१२ पूर्वसेवाद्वा० श्लो० २३-२४-२५) यशोविजयोपाध्यायाः । अहं सुखी अहं दुःखी इत्यादि जीवसत्तास्थापकत्वं, तत् ततो ज्ञेयम् । इति एकविंशतितमवृत्तस्यार्थः॥ २१ ॥ सूत्रम् श्राद्धैरकारिषत भागवता विहारा यैर्दिग्गजैविणदानघनैरुदाराः । ये चात्र रक्षणपराः पतितं सृजन्ति ते नूनमूर्ध्वगतयः खलु शुद्धभावाः ॥ २२ ॥ व्याख्या-श्राद्धैरिति । यैः श्राद्धः-श्रावकैः भागवता विहाराः-जिननिवासाः अकारिषतकृताः । अत्र कारणे कार्योपचारः कृतोऽस्ति तेन कारिता इत्यर्थः । भगवतः-जिनस्य इमे भाग महि परलोकः न पुण्यं न पापं सुखं प्राप्तं तद् भुज्यतां स्वतः । वृकपद इव भयं दर्शयित्वा कपटी तपोजपयोः मतिं ददाति (O॥५॥ १ माता यथा बालकस्य 'हाउ' इति दर्शनेन भापयति, तथा दर्शनिनो नारकनिगोदादीनां भयं दर्शयित्वा भापयतीत्यादि कथनेन आस्तिक्यं लोपयति । २ सन्तुल्यतां यदुक्तं श्रीहरिभद्रसूरिपुरन्दरैः षड्दर्शनसमुच्चये लोकायतमतनिरूपणावसरे "लोकायता वदन्त्येवं, नास्ति जीवो न निर्वृतिः। धर्माधर्मों न विद्यते, न फलं पुण्यपापयोः॥८॥ एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः। . भद्रे ! वृकपदं पश्य, यद् वदन्त्यबहुश्रुताः॥८॥" ३ च तदा' इति क-पाठः। ४ 'प्रिया स' इति जैनधर्मप्रसारकसंसदा मुद्रिते ग्रन्थे (७५ तमे पन्ना)। ५'गोतम!' इति ख-पाठः। ६ 'तत्रतो' इति ख-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002969
Book TitleJain Dharmvar Stotra
Original Sutra AuthorBhavprabhsuri
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy