SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ अर्थरनावली 'संवेगरङ्गशाला', येन कृता जगति लोकहितहेतुः । जातः श्रीजिनचन्द्रः, सूरिस्तत्पदृसमचन्द्रः ॥ ९॥-आर्या अतिचङ्गनवाङ्गीवृत्तिकार ! खरतरगणनायक! सुगुणधा(धी?)र! यशसा युतं ! जय चिरमभयदेवसूरीश्वर! सुरकृतचरणसेव! १०-आर्यागीतिः कृत्वा समीपेऽभयदेवसूरे र्येनोपसम्पद्रहणं प्रमोदात् । पपे रहस्यामृतमागमानां सूरिस्ततः श्रीजिनवल्लभोऽभूत् ॥ ११ ॥-उपजातिः जिग्यिरे येन योगिन्य-श्चतुःषष्टिर्यतीन्दुना। सूरिः श्रीजिनदत्तोऽभूत् , तत्पदाम्बुजभास्करः ॥ १२ ॥-अनु० ततस्तनुभृतां प्रियः समजनिष्ट शिष्टक्रियः प्रणष्टतिमिरोत्करः सुजिनचन्द्रसूरीश्वरः। कवित्वसुममालिको न(व?)रमणीमनोज्ञालिको नमन्निखिलनायकः प्रवलसौख्यसन्दायकः ॥ १३ ॥-पृथ्वी जिनपतिसूरिजिनेश्वर-सूरीश्वरजिनप्रबोधजिनचन्द्राः । तत्पद्देऽनुक्रमतो--ऽभूवन भूपीठविख्याताः ॥ १४ ॥-आर्या .. यस्यादेशात् 'खरतर'वसत्याख्यचैत्यं प्रचक्रे .. तेजःपालो विपुलविभवोऽपि स्वयं तत्र चैत्ये । यः प्रातिष्ठत् त्रिभुवनगुरोः शान्तिनाथस्य बिम्ब सोऽभूच्छ्रीमज्जिनकुशलराट् सूरिराजीतुरापाट् ॥ १५ ॥-मन्दाक्रान्ता नमानेकविवेकसेकविलसत्क्ष्मापालजम्बालज प्रत्यग्रप्रतिवोधवन्धुररविः प्रत्यर्थिभूभृत्पविः । यः 'कूर्चालसरस्वती'ति सुतरां ख्याति क्षितौ प्राप्तवान् स श्रीमजिनपद्मसूरिसुगुरुर्जातस्ततस्तारकः ॥ १६ ॥-शार्दूल. सञ्चारुचरणनीरज-चञ्चरतरचञ्चरीककरणिरभूत् ।। “सं श्रीमज्जिनलब्धिः, सूरिः सौभाग्यगुणलब्धिः ॥ १७ ॥-आयो तदनु विगतच(त?)न्द्राः पश्चिमाम्भोधिमन्द्राः __कुशलकुमुदचन्द्रा प्रत्तभव्याङ्गिभद्राः। । मुद्रितोऽस्याः पूर्वार्धः श्रीजिनदत्तसूरिग्रन्थमालायां (सूर्यपुरे)। 'सुर'शब्दो मास्ति ग-घ-प्रत्योः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002921
Book TitleAnekarth Ratna Manjushayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy