SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ३२ अर्थरनावली [अर्थाः ६२१-६३७ ] च पचनम् ॥ ६॥ अर्थयोजनाऽपि यत्र तादृशी न भवति कृता तत्र कुशाग्रीयमतिभिः स्वयं कार्या । मया तु ग्रन्थगौरवभिया न वारंवारं लिख्यते । पूर्वोक्त ३० मीलने जाताः ॥ ३६ ॥ सर्वे० ॥ ६२०॥ ___ राजानः! देदते सोख्यम् ॥ ६२१-६२४ ॥ ५ हे राजानः!-हे नृपाः! ददते अर्थात् दानं ददानाय पुरुषाय सौख्यं-सुखं, अस्तु इति शेषः, दानस्य सर्वाभीष्टार्थसाधकत्वात् । यदुक्तम् "धर्मस्य मूलं पदवी महिम्नः, पदं विवेकस्य फलं विभूतेः। प्राणाः प्रभुत्वे प्रतिभूश्च सिद्धे-र्दानं गुणानामिदमेकमोकः॥१॥ दानेन चक्रित्वमुपैति जन्तु-र्दानेन देवाधिपतित्वमुच्चैः।। दानेन निःशेषयशोऽभिवृद्धि-दर्दानं शिवे धारयति क्रमेण ॥२॥" इत्यादि ॥१॥एवं असौख्यं-दुःखं स्यादिति गम्यं इह मार्गणादिलोककृतसन्तापवशादिति ॥ २॥ एवं अददते पुरुषाय, कृपणायेत्यर्थः । सौख्यं । मार्गणादिजनानुच्चाटनत्वात् । इदं मार्गणादिसन्तापितस्य दीयमानदानस्य पञ्चजनस्य राज्ञः प्रति वचनम् ॥ ३ ॥ एवं अददते असौख्यं दानपुण्याभावात् ॥ ४॥ सर्वे० ॥ ६२४ ॥ १५ राज! आनो! ददते अददते सौख्यम् ॥ ६२५-६२८ ॥ ___ आ-अतिशायिनी नुः-स्तुतिलोंके यस्य स आनुः तस्य सं० हे आनो-अतिशायिस्तुतिमन् ! ददते पुरुषाय सौख्यं ॥१॥ हे राज ! राजतेः अचि राजस्तत्सं० हे राज !। शेषं पूर्ववत् । अमुना प्रकारेण पूर्ववत् ४ अर्थाः कार्याः । एवमत्र खण्डनया भिन्नभिन्नविशेष्यसम्बोधनपदकर्षणेन अनेकेऽर्थाः उत्पद्यन्ते, परं मया बहुप्रयासभीत्या न २. लिखिताः । सर्वे०॥ ६२८ ॥ राजानो ददते सौख्यम् ॥ ६२९-६३०॥ राजानं आनयति-जीवयतीति राजानो-राजवैद्यः सौख्यं ददते, रोगिणामिति शेषः, रोगापहारेण सौख्यदानात् ॥ १॥ एवं असौख्यं ददते । तथाविधानां केषाञ्चित् ॥ २॥ अर्थयो । सर्वे ॥ ६३०॥ रोजानो ददते असौ ख्यम् ॥ ६३१-६३७ ॥ राजानो-नृपाः। “(याच्यलिङ्गः) खशब्दोऽर्के, वितर्के व्योम्नि वेदने । प्रश्ननिन्दानृपक्षेप-सुखशून्येन्द्रिये दिवि ॥ २४ ॥ अवसानेऽपवर्गेऽपि, परब्रह्मण्यपीरितः।" मददते' इति अर्थान्तरे। २ 'राजा नो' इत्यर्थान्तरे। Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.002921
Book TitleAnekarth Ratna Manjushayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy