SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ [ अथा: ८८-९१] श्रीसमयसुन्दरगणिकृता रा-श्रीः इत्पूर्वकः अजाः श्री(रा)अजाः-श्रीशान्तिः असौ-एषः अं-परब्रह्म न-अस्माकं ददते । किं० १ खी-ज्ञानवान् , केवलज्ञानवानित्यर्थः । इति द्वितीयोऽर्थः । सर्वे ॥ ८७ ॥ र! अज अ ! नो अद ! दत ! इसौख्यम् ॥ ८८॥ हे अ!-हे अर्हन् ! त्वं इसौख्यं-कामसुखं अज-क्षिप, वैराग्यदेशनादानेन दूरीकुरु इत्यर्थः । यतस्त्वं किंभूत ? साक्षात् र!-सूर्य ! केवलज्ञानेन जगत्प्रकाशकारित्वात् । हे ५ अद! अस्य-कृष्णस्य दः-पूजनं यस्मिन् यस्य वा सः अदः; अथवा अवन्-कृष्णवत् दो-दीप्तिर्देहद्युतिर्यस्य सः अदः, कृष्णवर्णत्वात् 'विशेषणाद् विशेष्यप्रतीति 'रिति न्यायात् श्रीनेमिः तत्सम्बोधनं हे अद!-हे श्रीनेमे! । पुनः हे दत! दैः-देवैः ता-श्रीः-शोभा यस्य स दतः, जघन्यतो देवकोटीसेव्यत्वात् , तत्सम्बोधनं हे दत!। किं० त्वम् ? । नो-बुद्धःअवगततत्त्वः । इदं श्रीनेमिप्रभोरग्रे वैराग्यदेशनां शुश्रूषणां यदूनां वचनम् । इति तृती-१० योऽर्थः । सर्वे ॥ ८८॥ रा-आजा नो अददत ईसौख्यम् ॥ ८९ ॥ रा-पर्यायेण श्रीः । “अः शिवे केशवे वायौ” इति विश्वशम्भुवचनाद् अं-वायु अजति-क्षिपति धातूनामनेकार्थत्वात् भक्षतीति अचि आजः-सर्पस्तेन आ-शोभा यस्य स आजाः । श्री(रा)पूर्वकः आजाः श्री(रा)आजाः-श्रीपार्श्वनाथः, सर्पलाञ्छनात् । स नः-१५ अस्माकं ईसौख्यं अददत । इति चतुर्थोऽर्थः । सर्वे ॥ ८९ ॥ . रा-ज! अना-उत्-अत् अत ईसौख्यम् ॥ ९० ॥ "रा रमा रमणी वाला" इति वचनात् रा-कन्या तत्पर्यायत्वात् कन्याराशिस्तत्र जो-जातो राजः-श्रीमहावीरः, कन्याराशिजातत्वात् , तत्सं० हे राज!-हे श्रीवीर! त्वं ईसौख्यं अत-गच्छ । किं० (त्वम्) ? अना-निरवद्या उतू-भाषा तां अततीति अनीदत् ।२. इति पञ्चमोऽर्थः । इति जैनमतप्रसिद्धपश्चतीर्थीमाश्रित्यार्थाः प्रदर्शिताः । जाता: सर्वेऽपि ॥९॥ अथ पुनरपि प्रकारान्तरेण जैनमतप्रसिद्धान् कतिचिजिनानाश्रित्यार्थाः प्रदर्श्यन्ते-- रा आऽजानोऽत् ! अद! ते आसौख्यम् ॥ ९१॥ ___ आं-ब्रह्माणं अजति-देवत्वेन गच्छति, तं श्रयतीत्यर्थः इति आज तादृशं यदनः-१५ शकटं रोहिणीत्यर्थः। तथाच प्रयोगः-'उदेष्यति शकटं कृत्तिकोदयात् । शकटे अन इति नाम च स्यात् तदाकारत्वात् । आजत्वं च ब्रह्मसेवकत्वात् । यदुक्तम्-"ब्राह्मी तु रोहिणी" इति (अभि० का० २, श्लोक २३)। तत आजानः-रोहिणीनक्षत्रं तत् अतति 'मसौख्यम्' इति भान्तरे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002921
Book TitleAnekarth Ratna Manjushayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy